________________
उपायाः
सूत्रं २ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१८१ संसारजलधेरुत्तरीतुमभिवाञ्छतां प्रधानसंवराभावेऽपि न्यस्तसमस्तप्रमादस्थानानां देशसंवरः समस्त्येवेति । तत्प्रतिपादनायाहसंवरस्य सूत्रम्-स गुप्ति-समिति-धर्मा-ऽनुप्रेक्षा-परीषहजय-चारित्रैः
॥९-२॥ टी०-अथवा आस्रवनिरोधलक्षणः संवर उक्तः । स पुनः केनोपायेन कर्तव्य इत्युपायस्य दर्शनार्थमिदं सूत्रं स गुप्तीत्यादि । स इत्यनेन सर्वनाम्ना प्रक्रान्तं संवर परामृशति । गुप्यतेऽनयेति गुप्तिः, संरक्ष्यतेऽनयेत्यर्थः, संपण्यतो हि गुप्त्यादयः करणीभवन्ति सम्यग्गतिहेतुत्वात् समितयः, गतिरिति सकलकियोपलक्षणम् सर्वज्ञप्रणीतज्ञानानुसारिण्यश्चेष्टाः संवरमादधति । नरकादिकुगतिप्रपातधारणाद् धर्मः क्षमादिदशलक्षणकः । अनुप्रेक्षणम्-अनुचिन्तनम् अनुप्रेक्षा अनुप्रेक्ष्यन्ते-भाव्यन्त इति वाऽनुप्रेक्षाः। तादृशानुचिन्तनेन तादृशीभिर्वा वासनाभिः संवरः सुलभो भवति । समन्तादापतिताः क्षुत्पिपासादयः सह्यन्त इति परीषहाः, परीषहा इति कः शब्दसंस्कारः १ न तावत् पचायचि, कर्तरि विहितत्वात्। न कर्मसाधनो घञ्वृद्धिप्रसङ्गात् "पुंसि संज्ञायां घः" (पा० अ०३ पा०३ सू० ११८) इति चेत्, न, तस्य करणाधिकरणयोर्विधानात् । उच्यते-"कृत्यल्युटो बहुलं" (पा० अ० ३ पा० ३ सू० ११३) इति वचनात् कर्मण्येव घञ्प्रत्ययः । “उपसर्गस्य घज्यमनुष्ये बहुलं" (पा० अ०६, पा० ३, सू० १२२ ) इति (बहुल)वचनात् पनि चान्यत्र च दीर्घत्वं शिष्टप्रयोगानुसरणात् परीषहाणां जयः-न्यकरणमभिभवः परीषहजयः । चर्यते तदिति चारित्रं, पृषोदरादित्याद वा अष्टविधकर्मचयरिक्तीकरणात् चारित्रं सामायिकादिपञ्चभेदम् । गुप्त्यादीनां चारित्रान्तानां द्वन्द्वः। एभिगुस्यादिभिः करणभूतैः संवरोऽवाप्यत इति ॥
सम्प्रति भाष्यमनुस्रियतेभा०–स एष संवर एभिर्गुप्त्यादिभिरुपायैर्भवति ॥२॥ किश्चान्यत्
टी०–स एष संवर इत्यादि । प्रस्तुतसंवरसम्बन्धनार्थस्तच्छब्दः । स संवरः आस्रवनिरोधलक्षणः । एष इत्यनेन मनसि व्यवस्थापितः, एभिर्गुस्यादिभिः करणभूतैरभ्युपायैर्भवति-जायते, स्वरूपं प्रतिलभत इतियावत् । कथं पुनः करणरूपं गुप्त्यादयः प्रपद्यन्ते ? तत्र रागद्वेषपरिणतेरातरौद्राध्यवसायात मनो निर्वत्य निराकृतैहिकामुष्मिकविषयाभिलापस्य मनोगुतत्वादेव न रागादिप्रत्ययं कर्मास्रोष्यति, यच्च वाचिकमसंवृतस्यासत्पलापिनोऽप्यप्रियवचनादिहेतुकं कर्माभिधीयते न तद् वाग्व्यापारविरतस्य यथाविहितवागभाषिणः, वाचाऽपि गुप्तत्वादेव, तथा कायिकर्मनिभृतस्य धावनवल्गनाप्रत्युपेक्षिताप्रमार्जितावनिप्रदेशचक्रमणद्रव्यान्तरादान
१'धेस्तरीतुं' इति हु-पाठः। २ 'सत्यतः मस्त ' इति ङ-पाठः । ३ ‘मभिभूतस्य ' इति ग-पाठः, ‘मनिवृत्तस्य' इति तु ङ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org