________________
नवमोऽध्यायः ९
टी०-तंत्र तावदध्यायसम्बन्धमाह भाष्यकारःभा०-उक्तो बन्धः । संवरं वक्ष्यामः ॥
टी०-उक्तः-प्रपश्चेन प्रतिपादितोऽनादिसन्ततिरष्टविधः कर्मबन्धः। पौरुषेयत्वादेव कदाचित् केनचिदत्यन्तमुच्छिद्यतेऽपि, पुंसा समासादिततदुच्छेदसाधनेनात्यन्तिकं क्षयमापा घत इति । तत्र पूर्वोपचितकर्मजालविच्छेदाय "तपसा निर्जरा च" इति कात्स्न्यैनोच्छेदं वक्ष्यति (अ० ९, सू० २)। अपूर्वकर्मावयवप्रवेशनिवारणाय तु संवरमेव तावद् वक्ष्यामःसंवरलक्षणम् सूत्रम्-आस्रवनिरोधः संवरः ॥९-१॥
टी०-आसूयते-समादीयते यैः कर्माष्टविधमाञवास्ते कर्मणां प्रवेशवीथयः शुभाशुभलक्षणाः कायादयस्त्रय इन्द्रिय-कषाया-ऽव्रत-क्रियाश्च पञ्च-चतुः-पञ्च-पञ्चविंशतिसङ्ख्यास्तेषां निरोधो-निवारणं-स्थगनं संवरः । पर्यायकथनेन व्याख्या ॥
भा०-यथोक्तस्य काययोगादेईिचत्वारिंशविधस्यास्रवस्य निरोधः संवरः ॥१॥
टी०-यथोक्तस्येत्यादि भाष्यम् । षष्ठेऽध्याये कायादिरास्रवोऽभिहितोऽनेकप्रकारः, तस्य काययोगादेरास्त्रवस्य यधिकचत्वारिंशद्भदस्य निरोधो यः स संवरः । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । अतो यावकिश्चित्कमोगमनिमित्त तस्याभावः संवरः। स च सर्व-देशभेदाद द्विधा। बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेष
_काले चरणप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवति। अत्राह-यदि सवरद्वविध्यम् सकलासत्रद्वारस्थगनलक्षणः संवरस्ततः सर्वकर्मनिमित्तास्रवच्छिद्रसंवुवर्षा कतिपयपुरुषसाध्यैव प्रमजति, अशेषस्य परिस्पन्दस्य निराचिकीर्षितत्वात्। अतः समचतुरस्रसंस्थानववर्षभनाराचसंहननादिभाजामाहितपराक्रमाणां कर्माणि निर्जिजीर्षता परिपूर्णशक्तिकानां परिस्पन्दस्वभावयोगत्रयनिग्रहः क्रमते, प्रागुपचितकर्मनिवृत्तिश्च, न पुनरैदंयुगीनपुरुषाणां यथोक्तसंवराभावादिति ?, उच्यते-संवरद्वैविध्ये सति सर्वसंवराभावः साम्प्रतिकानामित्यनुमनुमहे । देशसंवरस्तु सामायिकादिचारित्रवतां सत्यपि परिस्पन्दवत्वे विदिततत्वानां
१ 'उक्तो बन्धः संवरं वक्ष्यामः इत्यनेनाध्याय 'इति छ-पाठः। २ तालव्यपाठो ङ-प्रतौ। ३ स्पन्दवच्च' इति -पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org