________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ९
I
निक्षेपेणादिनिमित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोपविषयक्रिया कस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात् एवं सम्यग्योगत्रयनिगृही तिलक्षणास्तिस्रो गुप्तयः संवरस्य कारणीभवन्ति । समितयोऽपि गुप्तिरूपा एव प्रायचे टालक्षणत्वात् । चेष्टा च कायवाङ्मनोव्यापारः । तत्रेर्याऽऽदाननिक्षेपोच्चारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः । मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषासमितिः । यत् तु पार्थक्येनोपादानं तत् मन्दधियां विवेकेन सुखप्रतिपत्त्यर्थं प्रथमत्रतमृपावादादिप्रपञ्चवत् । तथा क्रोध-मान- माया लोभानां सभेदानां क्षमा-मार्दवाऽऽर्जव-शौचैर्निगृहीतत्वात् संवरावाप्तिः । सत्य-त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि चारित्रानुरोधीनि । संयमोऽपि सप्तदशप्रकारः कचित् प्रथमव्रतान्तः पाती, कश्चिदुत्तरगुणान्तर्भूतः । तपो द्वादशविधमुत्तरगुणान्तः पात्येव । अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च । परीपहा अपि यथास्वमापतिताः सम्यगधिसहनेन जीयमानाः संवरमाविष्कुर्वन्ति । तथा हिंसा ऽनृतवचन- परस्वाहरणा-ब्रह्मचर्य - परिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य कर्मास्रवनिमित्तानि । निरोधे सति विरमणभाजो न जातुचिदापतति तन्निमित्तकं कर्मेति । आधाकर्मादिपरिभोगनिमित्तं च कर्मास्रवणं तत्परित्यागे सति नैवास्ति । सर्वं चैतेदा रेकादिदोषजम्बाल विमुक्त सम्यग्दर्शन पीठप्रतिबन्धं गुप्त्यादि चारित्रान्तम् अतः सति तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्यादर्शनप्रत्ययः कर्मास्रव इत्येवमेते गुप्त्यादयः संवरस्य हेतवः - अभ्युपायाः सम्पद्यन्त इति ॥ २ ॥
१८२
अथ किमेभिरेव गुप्त्यादिभिरेष संवरो निष्पद्यते उतापरेणापि केनचिदित्याह - किञ्चान्यदिति । अनेन कारणान्तरमपि सम्बध्नाति । न गुप्त्यादय एव केवलाः संवरणसमर्थाः, किञ्चान्यदपि तपोलक्षणं संवृतेः कारणमस्तीति प्रदर्शयन्नाह -
संवरस्य सूत्रम् - तपसा निर्जरा च ॥ ९-३ ॥
अपर उपायः
टी० - तपसा निर्जरा चेति । पृथग् योगकरणमुभयहेतुत्वात् । तपसोऽभिनवकर्मप्रवेशाभावः पूर्वोपचितकर्मपरिक्षयश्च । तप्यत इति तपः सेव्यत इतियावत् । तपति वा कर्तारमिति तपः । तपसेति करणे तृतीया । निर्जरणं निर्जरा-विपकानां कर्मावयवानां परिशटनं, हानिरित्यर्थः । तपसा सेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटन्त इतियावत् । कर्तुः सन्तापकत्वाद् वा शुष्करसं कर्मातिरूक्षत्वान्निः स्नेहबन्धनं परिशटतीत्यर्थः । चशब्दः प्रस्तुतसंवरानुकर्षी, तपसा संवरश्च क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यन्तयैव संवृतावद्वारो भवतीति ॥
१' निक्षेपादि ' इति इ-पाठः । २ ' देकादि ' इति ङ-पाठः । ३ 'संवृतस्य' इति ङ-पाठः ।
,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org