________________
सूत्र ४] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१८३ भा०-तपो द्वादशविधं वक्ष्यते ( अ० ९, सू० १९-२० ) । तेन संवरो भवति निर्जरा च ॥३॥
टी-तपो द्वादशविधमित्यादि भाष्यम् । द्वादश विधाः-प्रकारा यस्य तद् द्वादशविधं तपः, उपरिष्टात् इहैवाध्याये (सू०१९-२०) अभिधास्यते-बाह्यमनशनादि षोढा, आभ्यन्तरं च प्रायश्चित्तादि षोढा । तेन द्वादशभेदेन तपसा करणतामापनेनोक्तलक्षणः संवरो भवति-आगन्तुककर्माभावप्रतिपादनं, निर्जरा च भवतीति चिरन्तनबद्धकर्माभावप्रतिपत्तिः। एवमिदमुभयस्य संवरनिर्जरालक्षणस्य हेतुभूतं तपो भवतीति ॥ ३ ॥ आह-अस्मिन् भारते वर्षे साम्प्रतिकपुरुषाणामल्पवीर्यत्वात् सकलयोगनिरोध
लक्षणसंवरात्यये गुप्त्यादिसामथ्योत् परिस्पन्दवतामपि संवरास्तित्व. उत्तरसूत्र माश्रीयते यदि ततस्त एव स्वरूपतोऽभिधेया इति क्रमेण गुप्त्यादिस्त्रसम्बन्धः
रूपनिर्णयः कार्यः । तत्र तावद् गुप्तिस्वरूपमेवोच्यते--" सम्यगयोगनिग्रहो गुप्तिः" (सू० ४) । भाष्यकारस्त्वन्यथा कियताऽपि विशेषेण सम्बन्धमाह
भा०–अत्राह-उक्तं भवता (अ० ९, सू० २)-गुप्त्यादिभिरभ्युपायैः संवरो भवतीति । तत्र के गुप्त्यादय इति ? । अत्रोच्यते
टी-अत्राह-उक्तमित्यादि । गुप्त्यादिभिः संवरो भवतीत्यत्रावसरे कश्चित प्रश्नयति–उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवति । तत्र-तेषु संवर कारणेषु के गुप्त्यादयः-किस्वरूपा गुप्त्यादय इति । अत्रोच्यते प्रतिपादयितुर्वचनम्, अत्र प्रश्ने निर्वचनमभिधीयते ॥ गुप्तिलक्षणम् सूत्रम्-सम्यग्योगनिग्रहो गुप्तिः ॥ ९-४ ॥
टी०–सम्यक्-प्रशस्तो मुमुक्षोर्योगनिग्रहो गुप्तिः-आत्मसंरक्षणम् । योगा मनोवाक्-कायलक्षणास्तेषां निग्रहो-निगृहीतिः प्रवचन विधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं चेति, अतो योगनिग्रहविशेषगार्थ सम्यगिति, सम्यग्-आगमानुसारेणारक्तद्विष्टपरिणतिसहचरिष्णोर्मनोव्यापारः काय-वाग्व्यापारश्च निर्व्यापारता-वाक्-काययोर्निग्रहो गुप्तिर्भवति, न पुनस्तस्करस्येव प्रत्यग्रागसो गाढबन्धनबद्धस्यातिपीडितहृदयप्रदेशस्य सम्पुटितनकविवरस्य पराधीनात्मनोऽनिच्छतो( वृत्तो) योगनिग्रह इष्यते ।
सम्प्रति भाष्येण सूत्रार्थ स्पष्टयन्नाह
भा०-सम्यगिति विधानतो ज्ञात्वाऽभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः ।
१. वक्ष्यामः' इति इ-पाठः। २ 'गन्तुका' इति उ-पाठः। ३ 'काययोग' इति ग-पाठः । ४ 'प्रत्ययाप्रशो' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org