________________
तस्वार्थाधिगमसूत्रम्
[ अध्यायः ९
टी० - सम्यगित्यादि । सम्यगित्यस्य शब्दार्थमाचष्टे - विधानत इति, सभेदं विज्ञाय योगं, तत्र काययोगस्यौदारिक- वैक्रिया ऽऽहारक- तैजस- कार्मणभेदाः सम्भविनः, वाग्योगस्य सत्यामृषादयः, मनसः सावद्यसङ्कल्पादयः । ज्ञात्वेत्यागमतो यथावदवबुध्य, अभ्युपेत्य सम्यग्दर्शनपूर्वकमिति प्रतिपद्य च भावतः - एवमेते योगाः परिणताः कर्मबन्धाय, एवं च. कर्मनिर्जरायै । सम्यग्दर्शनपूर्वकमित्यभ्युपगम क्रियाविशेषणम् । प्रशम-संवेग - निर्वेदाऽस्तिक्या ऽनुकम्पाभिव्यक्तिलक्षणं सम्यग्दर्शनं तत् पूर्वं यस्याभ्युपगमस्येति । त्रिविधस्य योगस्येति मूलभेदाख्यानम्, उत्तरभेदानां मूलान तिलङ्घित्वात् परिग्रहः निग्रहः स्ववशे व्यवस्थापनं, स्वातन्त्र्यप्रतिषेधेन मुक्तिमार्ग नुकूलः परिणामो गुप्तिः, संरक्षणं भयानकात् कर्मबन्धशत्रोः ।
त्रैविध्यप्रतिपादनायाह—
भा०- काय गुप्तिः, वाग्गुप्तिः, मनोगुप्तिरिति । तत्र शयनाssसनागुप्तेः प्रकारत्रयं काय गुप्तेर्लक्षणं च ऽऽदाननिक्षेप-स्थान- चङ्क्रमणेषु कायचेष्टानियमः कायगुप्तिः ॥ टी० - काय गुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति । कायस्य गुप्तिः- संरक्षणं उन्मार्गगतेरागमतः । तथा च संरक्षितः कौयो नात्मानमुपहन्ति, एवं वाङ्मनोगुयोरपि व्याख्या । इतिशब्दोऽवधारणार्थः । त्रिविध एव मूलभेदतो योगः । तत्र तेषु योगेषु निगृहीतव्येषु काययोगनिग्रह एव तावदुच्यते - शयनमागमोक्तो निद्रामोक्षकालः । स च रात्रावेव, न दिवाऽन्यत्र ग्लानादेः । तत्रापि क्षणदायाः प्रथमयामेऽतिक्रान्ते गुरुमापृच्छय प्रमाणयुक्तायां वसतौ, एकस्य साधो ईस्तत्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता, तत्र प्रमृज्य स्वावकाशं प्रत्यवेक्ष्य संहृत्यास्तीर्य च संस्तरणपट्टकद्वय मूर्ध्वमघश्च शयन- कार्य प्रमृज्य सपादं मुखवस्त्रिका - रजोहृतिभ्याम् अनुज्ञापित संस्तारकावविवरणम् स्थानः कृतसामायिकनमस्कृतिः वामबाहूपधानः आकुश्चितजानुकः कृकधाकुवद् वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदेशक मुद्वर्तन काले च मुखवस्त्रिका मृष्टकायो नात्यन्ततीत्रनिद्रः शयीत ।
आसनं - निवेशनं यत्र भूप्रदेशे विवक्षितं तं प्रत्यवेक्ष्य चक्षुषों च रजोहरणेन प्रमृज्य च बहिर्नषद्यामास्तीर्य निविशेत । 'निविष्टोऽप्याकुञ्चनप्रसारणादि पूर्ववत् कुर्वीत । वर्षादिषु च हँसिकापीठकाद्यमुयैव सामाचार्या प्रत्यवेक्ष्य प्रमृज्य च सन्निवेशनं कुर्यात् । आदाननिक्षेपौ च दण्डकोपकरणचेष्टाभोजनादिविषयौ, वा तावपि प्रत्यवेक्षण प्रमार्जन पूर्व के निरवद्ये भवतः । तथा स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादि के सुप्रत्यवेक्षितप्रदेश विषयं पिण्डीकृतवस्त्राद्यन्तधनमवष्टम्भादि च निरवद्यं, चङ्क्रमणं - गमनं तदपि प्रयोजनवतः पुरस्ताद् युगमात्र प्रदेश
१८४
,
१' निग्रहः परिग्रहः' इति ग-पाठः । २ ' कायेना' इति च - पाठः । ३ ' प्रमाणायुष्काणां ' इति - च-पाठः । ४ ' प्रमृज्यकायेन ' इति ङ-पाठः । ५ ' चक्षुषा प्रमृज्य च रजोहत्या बहिर्निष इति च पाठः । ६' यत्र भूप्रदेशे निविष्टो ' इति ङ-पाठः । ७ 'घूमिका' इति च - पाठः । ८ प्रत्युपेक्ष्य प्रमृज्य' इति गव पाठः । ९ दिवास्तुप्रत्य ' इति ङ-पाठः ।
"
१० ' चक्रमणं ' इति ग-च- पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org