________________
स्वोपज्ञभाष्य–टीकालङ्कृतम्
"" कामं सव्वपदेसुवि, उस्सग्गत्रवातधम्मता जुत्ता ।
मोतुं मेहुणभावं, ण विणा सो रागदोसेहिं ॥ १ ॥ " - आर्या वानर्थकमेव प्रमत्तग्रहणमत्रेति । मण्डूकप्लुत्या चाधिकारानुवृत्तिः । असंख्येयलोकाकाशप्रदेशपरिमाणबृहच्वादात्मा ब्रह्मा । स च मैथुनानुस्मृति संस्कारस्पृहेन्द्रियालोकटष्यरसविषयविकथा सत्कृतिसंसक्तसेवाभेदाद् दशविधाद् अब्रह्मणो निवृत्तथरन् ब्रह्म - ब्रह्म ध्वनिवाच्यः आत्मैव चरणं चर्यम् आत्मनो ब्रह्मणः सेवनमात्मनि आमरणं न बहिर्मुखचित्तवृतिता ख्यादिविषया, अतो मनोवाक्कायैः कृतकारितानुमतियुक्तैः परिहारोऽङ्गनाविषयः सर्वथा ब्रह्मचर्यमात्मन्येव वृत्तेः, संवृतेन्द्रियद्वारत्वात् । तद्विपरीतमब्रह्म । तच्च तीव्ररागानुबन्धिना सङ्कल्पेन चोदितः कायव्यापारो दशनकोटिकृतालिङ्गन करजघट्टनालक्षणस्तत्काल रमणीयकप्रलापश्चानेकविधो वाग्व्यापारो विपरीतदर्शनाहितात्मकतिपय प्रेमलेशात् स्वकल्पनासमारोपितमनोज्ञकानुपजातातुल विषयतर्षपरिमुषितशेमुषीकान् पुंसः क्रशयत्यतितराम् । तथाचानुकूलत्वाद् दुस्त्यजमपीदमशुचित्वादि भावनाजाल संस्पर्शनाद् विवेकिनो जहत्यवधीरितमकरध्वजसराः । तदेतदब्रह्म यथोक्तलक्षणं भाष्येण प्रकाशयन्नाह -
सूत्र ११ ]
मा० - स्त्रीपुंसयोमिथुन भावः मिथुनकर्म वा मिथुनं तदब्रह्म ॥ ११ ॥ टी० - स्त्रीपुंसयोरित्यादि । स्त्री च पुमांच स्त्रीपुंसौ । “अचतुरा "दि ( पा० अ० ५, पा० ४, सू० ७७ ) सूत्रलक्षितः स्त्रीपुंसशब्दः । तयोः स्त्रीपुंसयोर्रेद्भुततीत्रदेहपरिणामयोर्मिथुनता - मिथुनभावश्चित्तपरिणामो मोहकर्मोदयात् क्लिष्टः परस्परमाश्लेषे सति सुखमुपलभमानयोः स्त्रीपुंसग्रहणादेवोदितवेदयोर्यो मिथुनभावः कृत्तद्धितसमासानां चाभिधानलक्षणत्वात् प्रतिविशिष्टमैथुनकर्म संप्रत्ययो न पुनः प्रयोजनवशादासन्न प्रदेशस्थितस्त्रीपुंसमिथुनमात्रं मिथुन भावो मिथुनकर्म वाऽभिधीयते । ततश्च स्त्रीप्रव्रजितयोश्चैत्याभिवन्दनादिकर्मण्यप्रसङ्गो मिथुन भावस्य तद् अब्रह्मेत्यनेन तच्छब्देन स्त्रीपुंसादिलक्षणो मिथुनभावो मिथुनकर्म वा सर्वमेतन्मैथुनमब्रझेति निगमनद्वारेण परामृश्यते । स्त्रीपुंसग्रहणं प्रधानत्वात् पूर्वोक्तसकल विकल्पप्रतिपादनार्थम् । प्रधानं च स्त्रीपुंसयोर्मिथुनभावः, पृथगनाचरितास्तु शेष विकल्पाः । ते च स्त्रीपुंसग्रहणेन सर्वेऽपि सूचिताः । तदेतदब्रह्म संक्षेपतो रागद्वेषमोहम्लमनर्थपरम्परा रागात् परदाराभिगमलाभसत्कारात्म मित्रत्राणार्थमासेवते द्वेषाद् वैरनिर्यातनार्थं मोहात् स्वस्रादिपरिभोगाद्यनुष्ठानमविच्छिन्न विषय पिपासाः समाचरन्ति । साधवस्तु विवेकबलादुपशान्तरागादिरजसः सर्वात्मना परिवर्जयन्तीति ॥ ११ ॥
१ छाया
७९
कामं सर्वपदेष्वपि उत्सर्गापवादधर्मता युक्ता ।
treat मैथुनभावं न विना स रागद्वेषौ ॥
२ बोदितः' इति उ-पाठः । ३ 'लाप्रतापश्च' इति पाठः । ४' रुद्भूत' इति पाठ ५' संप्र स्ययोर्न पुनः' इति ङ-पाठः । ६ ' च' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org