________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ भा०-अत्राह-अथ परिग्रहः क इति ? । अत्रोच्यते
टी०-अत्राहेत्यादिना सम्बन्धकथनम् । अवधृतहिंसादिलक्षणचतुष्टयोऽपरलक्षणाभिधानप्रस्तावे प्रश्नयति-अथ परिग्रहः क इति । अथ-अब्रह्मानन्तरं परिग्रह उपदिष्टः, स किलक्षणविषयः १ प्रश्ने आचार्य आह-अत्रोच्यते-अत्र-लक्षणप्रश्नेऽभिधीयते । बाह्याध्यात्मिकोपधिविशेषसंरक्षणक्षयार्जनसङ्गपर्येषणा या सैव हि शब्दान्तरनिर्दिष्टा
परिग्रहलक्षणम् सूत्रम्-मूर्छा परिग्रहः ॥ ७-१२ ॥ . टी.-अत्र प्रमत्तयोगादित्यनुवर्तते।मूर्च्छति । "मूर्छा मोहसमुच्छाययोः"(पा० धा० २१२) मूच्छर्यतेऽनया आत्मेति मूर्छा-लोभपरिणतिः तया आत्मा मोहमुपनीयते-विवेकात् प्रच्याव्यते, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकपायोपरागादसमञ्जसप्रवृत्तिप्रवणोऽयमात्मा कार्यमकार्य वा न किश्चिच्चेतयते, समुपगूढमूढिस्तृष्णापिशाचिकावशीकृतचेतोवृत्तिश्चेष्टतेऽन्धवधिरवदनालोचितगुणदोषः। समुच्छ्रायोवा मूर्ची, समुच्छ्रीयते-प्रतिक्षणमुपचीयतेऽयमात्मा लोभोपरागबलानुरञ्जितो हिंसादिदोषैः। अतः सकलदोपाग्रणीलॊभः। तथाच लुब्धो हिंसादिषु निरारेकं प्रवर्तते । तनयः पितरमपि हिनस्ति, भ्रातरं सहजः, पिताऽऽत्मजं, एवं जामिजननीपत्न्या
दयोऽपि वाच्याः। गृहीतोत्कोचश्व कूटसाक्षित्वदायी बहनृतं भाषते, बललोभस्य साम्रा- प्रहर्षात पथि मुष्णाति पथिकजनं खनति क्षेत्रमपि चौयोत् । लाभलोभाच्च
राजादियोषितमप्यभिगच्छति । सर्वथा न कश्चन भावो बहिरन्तर्वा समासको दूरवर्ती वा मनोहरदर्शनः प्रतिकूलो वा यमयं विजयाद् भावेन, प्रचुरतरानिष्टसम्पादने लघुनि चोपनीयते दुश्चरितानि लोभभुजङ्गेन । अनेन पथिकृतः परमगौरवायतनेऽपि विषयपरिगो. र्येन परिस्खलतीति मूर्छा लोभ इति । स चापि सर्वैः प्रकारैः । सा च मूर्छा लोभलक्षणा
... अभ्यन्तरबहिविषयालम्बना । तत्राभ्यन्तरो विषयः चतुदेशविधा,
पन्तरा तद्यथा-राग-द्वेष क्रोध-मान-माया-लोभ-मिथ्यादर्शन-हास्य-रत्य-रतिमूछोविषयाः ।
भय-शोक-जुगुप्सा-वेदाख्यः । बहिरपि वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्वित्रिचतुःपाद्भाण्डाख्य इति । एतावान् विषयो मूच्याश्वेतःपरिणामरूपाया। एते रागादयः परिग्रहहेतुत्वात् मूर्छा, वास्त्वादयश्च ममैवेत्येवमज्ञानाद् विषयीकृताः कालुप्यवेताऽऽत्मनोऽनेकविधजन्मग्रन्थिस्थिरीकरणायापर्यालोचितपूर्वापरभावेन परिग्रहोऽभिधीयते। परिगृह्यत इति परिग्रहः, लोभानुरक्तचित्तवृत्त्या स्वीक्रियत इतियावत् । परिमाणविशेषो
ज्यम्
१'लोभपुरान' इति उ-पाठः। २'तथा अवलुब्धो' इति उ-पाठः।३'क्षणमपि चोरयति' इति-पाठः। 'गर्धेन' इति पाठः । ५'बत् आत्ममा 'इति -पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org