________________
२६
तच्चार्थाधिगमसूत्रम्
[ अध्यायः ६
योगः अनिवृत्तानां वा कार्यटिकादीनां गृहस्थलिङ्गभाजामाचारोऽगारशब्दवाच्यः, तद्योगादगारिणस्तेष्वगारिषु, गृहस्थेष्वित्यर्थः । तद्विपरीता अनगाराः कुतश्चित् पापस्थानान्निवृत्ताः कुतश्चिन्न निवृत्ताः सर्वे पाखण्डिनः श्रावकाः सर्वारम्भव्यावृत्तिभाजो वा यतयस्तेषु चानगारिषु प्राणातिपातादिनिवृत्तित्रतसम्पन्नेषु अनुकम्पाविशेषः - प्रकृष्टानुकम्पा अतिशयवती । यत् तेषु दानं भक्तपानवस्त्र पात्राश्रयादेर्दीनानाथवनीयकादिषु अगारिष्वनगारेषु च ज्ञानदेर्शनाचरणसम्पन्नेषु त्वेकान्तकर्मनिर्जराफलं च भवति । अथवाऽनुग्रह बुद्ध्याऽऽर्द्रीकृतचेतसः परपीडामात्भसंस्थामिव कुर्वतोऽनुकम्पनमनुकम्पा । स्वस्य परानुग्रहाभिप्रायेणातिसर्गो दानम् । रञ्जनाद रागः -संज्वलनलोभादिकषायाः तत्सहवर्ती सरागः । संयमनं संयमः - प्राणिवधा ग्रुपरतिः । सरागस्य संयमः सरागसंयमः । मूलगुणोत्तरगुणसम्पल्लोभाद्युभयभाज इतियावत् । संयमासंयमः स्थूलप्राणातिपातादिनिवृत्तिः अणुव्रत गुणत्रत शिक्षात्रत विकल्पा । विपयानर्थनिवृत्तिमात्माभिप्रायेणाकुर्वतः पारतन्त्र्यादुपभोगादिनिरोधः अकामनिर्जरा, अकामस्य-अनिच्छतो निर्जरणं - पापपरिशाटः पुण्यपुद्गलोपचयश्च, परवशस्य चामरणमकामनिर्जरायुषः परिक्षयः । मिथ्याज्ञानोपरक्ताशया बालाः शिशव इव हिताहितप्राप्तिपरिहारविमुखाः तपो जलानलप्रेवेशे हिनी साधन गिरिशिखरभृगुप्रपातादिलक्षणं तेन तादृशा तपसा बालानां योगो बालसम्बन्धित्वाद् वा तपोऽपि बालं तेन बालतपसा योगो बालतपोयोगः । अथवा बालं तपो येषां ते बालतपसः । लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः । दण्डभावनिवृत्त्यर्थं योगाभिधानम् । धर्मप्रणिधानात् क्रोधनिवृत्तिर्मनोवाक्कायैः क्षान्तिः, क्रोधकषायोदय निरोधः उदितस्य वा कथञ्चिद् वैफल्यापादनम् । क्षमा सहनं, क्षमेरुदितो दैवादिकस्य क्षान्तिः, अन्यस्य तु क्षमैव । लोभकषाय विशेषाणामुपरमः शौचम् । स हि कषायस्तृष्णालक्षण आन्तरो मलस्तत्प्रक्षालने शौचं रक्तस्यात्मवाससः सन्तोषवारिणा विमलतापादनं, निरुद्धवाक्कायमनोऽकुशलप्रवृत्तेश्वरणं तपोऽनुष्ठायिनः प्रायो निर्जराफलम्, तदेकदेशानुष्ठायिनस्तु सद्वेद्यास्रवः । तथा द्रव्यशौचं स्नेहगन्धलेपापकर्षलक्षणं प्रासुकजलादिना क्रियमाणमास्रवः सद्यस्य भूयसा जायते । इतिशब्दः प्रकारार्थ आद्यर्थो वा । धर्मानुरागः 'धनिषेवणशीलव्रत पौषधोपवासरतितपोऽनुष्ठानबालवृद्धतपस्विग्लानवैयावृत्त्यानुष्ठानधर्माचार्य मातृपितृभक्ति सिद्धचैत्यपूजाशुभ परिणामाच सदेद्यस्यास्रवा भवन्तीति ॥ १३ ॥
सद्वेधस्यान्येऽप्यास्रवाः
एवमभिधाय सदसत्प्रकारस्य वेदनीयकर्मण उपादानहेतूनधुना दर्शनचारित्रमोहभाजो मोहनीयस्य संसारपद्धतिलताबीज स्यात्मलाभहेतव उच्यन्ते
१' दर्शनचरण ' इति ङ-पाठः । २ 'प्रवेशेऽमिनीसाधन गिरि ० ' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org