________________
१७६
तत्वार्थाधिगमसूत्रम्
अध्यायः ८
कायादिचेष्टा योगानां विशेषो भेदः : तीव्रमन्दादिकः तस्माद् योगविशेषादतुल्यं बन्धनम्, एतदेवाह - कायवाङ्मनः कर्मयोगाच बध्यन्त इति । कायस्य वाचः मनसश्च क्रिया-कर्म अनुष्ठानभाषणचिन्तनादिका तयाऽऽत्मनो योगः - सम्बन्धः । क्रियाक्रियावतोः कथञ्चिदनन्यत्वात्, तस्य क्रियायोगस्य विशेषस्तीवस्तीव्रतरस्तीव्रतम इत्येवं बन्धोऽपि प्रकृष्टादि मेदो मन्तव्यः । किंगुणाः के वेत्यत्राह
भा० – सूक्ष्मा बध्यन्ते, न बादराः ।
डी० - सूक्ष्मा बध्यन्ते, न बादरा इति । सूक्ष्मशब्दो ह्यापेक्षिकत्वाद् बहुमेदः, परमाणोरारभ्य यावदनन्तप्रदेशाः स्कन्धास्तावदप्यतिसूक्ष्मत्वान्न बन्ध्या भवन्ति । अनन्तानन्तप्रदेशवर्गणायामपि भूयोऽनन्तराशिप्रदेशात् केचिद् ग्रहणयोग्याः केचिन्नेति अतः सूक्ष्मग्रहणम् । एवं क्रमेणौदारिक वैक्रिया-ऽऽहारक- तैजस-भाषा- प्राणापान - मनोवर्गणाः समुल्लङ्घ्य कर्मवर्गणायोग्याः सूक्ष्मपरिणतिरूपा एव बध्यन्ते, न बादरपरिणतिभाज इति । एवं क्रमेण सूक्ष्मपरिणतिभाजः केचिदग्रहणयोग्याः केचिद् ग्रहणयोग्याः, पुनरपि केचिदग्रहणयोग्या इति ॥
पश्चमप्रश्नप्रतिवचनार्थमाह
भा०- एकक्षेत्रावगाढा बध्यन्ते, न क्षेत्रान्तरावगाढाः ।
टी० - एक क्षेत्रावगाढा इत्यादि । एकस्मिन् - अभिने क्षेत्रे जीवप्रदेशैः सर्वे येऽवगाढा - आश्रितास्ते बध्यन्ते । यत्राकाशे जीवोऽवगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव बध्यन्ते, न क्षेत्रान्तरावगाढाः । तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढास्तद्भावपरिणामाभावादना ( न्या) श्रितानामिति ।
षष्ठप्रश्नोत्तरमाद
भा०—स्थिताश्च बध्यन्ते, न गतिसमापन्नाः ।
ढी० – स्थिता इत्यादिना । स्थिता एव बध्यन्ते । चशब्दस्यावधारणार्थत्वात् सामलभ्यमर्थं दर्शयति-न गतिसमापन्ना इति । समाप्तिः प्राप्तिः गतिपरिणाम इत्यर्थः । गतिप्राप्तास्तु गच्छन्त्येव, परिणामविशेषान्नात्मनि श्लिष्यन्ते वेगित्वादिति ।
सप्तमप्र प्रतिभेदायाह
भा०- सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते । एकैको ह्यात्मप्रदेशोऽनन्तैः कर्मप्रदेशैर्बद्धः ।
डी० – सर्वात्मप्रदेशेष्वित्यादि । सर्वे च ते आत्मप्रदेशाश्च सर्वात्मप्रदेशाः । आत्मप्रदेशाश्चासङ्ख्येयास्तेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्त इति । सर्वाश्च ताः प्रकृतयथ
१ ' कर्मविशेषाच्च ' इति ङ - पाठः । २ ' भूयोमपि भूयो ०' इति च पाठः । ३ ' प्रक्षेपात् ' इति ङ-पाठः । ४ ‘सह तत्र येऽवगाढाः' इति ङ-पाठः । ५ ' प्रश्ननिर्भेदायाह ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org