SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सूत्र २६ ] स्वोपज्ञभाप्य–टीकालङ्कृतम् सर्वप्रकृतयो– ज्ञानावरणादिकास्तत्स्वरूपाः पुद्गलाः सर्वप्रकृतिपुद्गलाः । सर्वात्मप्रदेशेषु बध्यन्त इति । पुनरेकैकस्य कर्मणो ज्ञानावरणादेर्योग्याः पुद्गलाः कियन्तः एकैकस्मिन्नात्मप्रदेशे बध्यन्त इति स्पष्टं विवृणोति - एकैको हीत्यादि । असङ्ख्येयप्रदेशात्मनो जीवस्य एकैकः प्रदेशोऽनन्तैर्ज्ञानावरणकर्मस्कन्धैर्ब्रद्धः । एवं दर्शनावरणादिकर्म प्रदेशैरिति । प्रदेशशब्दः स्कन्धवचनः, प्रकृष्टा देशा बहवो यत्र स्कन्धेव्विति निर्वचनात् । अष्टमप्रश्ननिर्भेदायाह भाः – अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते । 2- टी० - अनन्तानन्तप्रदेशा इति । अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपांदनन्तानन्त इति व्यपदेशः । ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तानन्तप्रदेशाः स्कन्धाः कर्म वर्गणायोग्या बध्यन्ते, श्लेषमुपयान्तीत्यर्थः । अयोग्यास्तु न बध्यन्त इति । तत्प्रतिपादनायाह भा० --- - न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशाः । कुतः १ अग्रहणयोग्यत्वात् प्रदेशानामिति । एष प्रदेशबन्धो भवति ॥ २५ ॥ टी० – न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशा इति । नैव सङ्ख्ये यादिप्रदेशा बध्यन्त इति । कुत एतदित्याह - अग्रहणयोग्यत्वात् प्रदेशानामिति । प्रदेशानां स्कन्धानामेवं विधानामग्रहणयोग्यत्वादिति । सम्प्रति उपसंहरति - एष प्रदेशबन्धो भवतीति । एतत् प्रदेशबन्धस्वरूपमित्यर्थः ।। २५ ।। १७७ भा०- - सर्वं चैतदृष्टविधं कर्म पुण्यं पापं च । तत्र - टी० – सर्व चैतदित्यादिसम्बन्धग्रन्थः । सर्वमिति सोत्तर प्रकृतिकमष्टप्रकारं ज्ञानावरणाद्यन्तराय पर्यवसानं पौद्गलं कर्म द्विधा (वि) भज्यते - पुण्यं पापं च । शुभं कर्म पुण्यं, अशुभं पापमिति । तत्र द्विप्रकारे कर्मणि प्राशस्त्याच्छुभमेवाभिधीयते । तन्निरूपणेन यच्छेषं तत् पापमित्यर्थाद् गम्यते, अतः - सूत्रम् --सदेद्य - सम्यक्त्व हास्य राति पुरुषवेद- शुभायु- नाम - गोत्राणि पुण्यम् ॥ ८-२६ ।। भा०2 - सद्वेद्यं भूतवत्यनुकम्पादिहेतुकं सम्यक्त्ववेदनीयं केवलिश्रुतादीनां वर्णवादादिहेतुकं हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनीयं शुभमायुष्कं मानुषं दैवं च शुभनाम गतिनामादीनां शुभं गोत्रं उच्चैर्गोत्रमित्यर्थः । इत्येतदष्टविधं कर्म पुण्यम्, अतोऽन्यत् पापमिति ॥ २६ ॥ १' स्पष्टं पृथक् ' इति ङ-पाठः । २ 'पादनन्त इति च पाठः । १३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy