________________
तार्थाधिगमसूत्रम्
[ अध्यायः ७
सर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनामपहुवानस्य प्रतीतिप्रत्यक्ष विरोधाववश्यंभाविनावित्या रेकिते भाष्यकृदाह - तच्च नेत्यादि । तदित्यनेन स्पर्शनसुखमभिसम्बध्यते । न खलु तत् सुखं, दुःखमेवेत्यभिप्रायः । वक्ष्यमाणोऽयमेतद्दृष्टान्तबलात् प्रतीतिप्रत्यक्ष विरोधावनास्पदौ, इतरस्तमेव दृष्टान्तमभिध्यायन्नाह - कुत इति । कस्मादेतत् स्पर्शनसुखं दुःखमेव प्रतिपत्तव्यं युक्तयन्तरात् ? । साध्यसाधनसङ्गतेन हि साधर्म्यदृष्टान्तेन प्रतिपत्तिरुपजायते साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन वेति भाष्यकार आह-व्याधिप्रतीकारत्वादित्यादि । राजपुत्री क्षयकुष्ठादयो व्याधिविशेषास्तेषां प्रतीकारः - प्रतिक्रिया, तभिदान परिहारेण भेषजोपयोगः पथ्यासेवनं च । उद्भूतो हि व्याधिः शरीरमनसोर्बाधामाधत्ते । वाधाप्रतिक्षेपश्च भेषजाद्युपयोगसाध्यः । कर्मणां च क्षयोपशमोदयादयः क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्तिकं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात् । मूढाश्च तमवस्थाविशेषं सुखमिति मन्यन्ते । व्याधिश्व मकरध्वजः ॥
1
प्रथमोद्दिष्टव्याधितुल्य विपाकत्वात् हेतुविचारणायाह
५४
भा० - असुखे ह्यस्मिन् सुखाभिमानो मूढस्य । तद्यथा - तीव्रया त्वक्रशोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठश कललोष्टशर्करानख शुक्तिभिविच्छिन्नगात्रो रुधिरार्द्रः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वन्मैथुनोपसेवीति मैथुनाद् व्युपरमः श्रेयान् ॥
टी० – असुखे ह्यस्मिन्निति । दुःखमेव भ्रान्ताः सुखमित्युपचरन्ति मोहादज्ञानाचे' त्यतोऽसुखे तस्मिन् सुखबुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपकेषु च तीव्र वेदना परिगतस्य जन्तोस्तत्पाटन पूय निःसरणेन वेदनामात्रप्रशमस्तथा पुरुषवेदाद्युदयात् तीव्रार्तिभाजोऽवधीरितविवेकबलस्य यत्किञ्चनकारिणो ग्रहाविष्टस्येव परवशतः सदाऽऽर्त्तध्यान पीड्यमानमनसः ख्यादिसंयोगे विलपतोऽसभ्यानि प्राप्तमूर्च्छागमस्येव बाढं क्लिभतो बीजलेशानुत्सृजतः पूयलवानिव सुखमभिमन्यमानस्य मोहनीय कर्मविजृम्भनिर्भरचेतसो मैथुने न सुखावाप्तिः दुःखमेव, अस्मिन् प्रत्यक्षप्रमाणसमधिगम्ये कृतः प्रतीत्यनुभवविरोधाविति । यस्त्वनुभवस्तत्र सुखरूपः सोऽभिनिविष्टबुद्धेरभिमानवतः समुपजात भ्रान्तेः शुक्तिकायां रजतप्रत्ययानुभववदिति । अतो विवादगोचरापन्नो बीजनिसर्गो न सुखहेतुः, व्याधिप्रतीकारत्वात् पूयादिनिसर्गवत् । अस्मिंश्च प्रतिज्ञाने दृष्टान्तः सुलभ इत्यनुपासोऽपि भाष्यकृता व्याख्यात्रा प्रदर्शितः । भाष्यकारी यदृष्टान्तस्तु – तद्यथेत्यादिना भाष्यते ।
१' ममिधापयन्नाह' इति ङ-पाठः । २ ' विवरणाय ' इति ङ-पाठः । ३ ' शिलालोष्ट ० ' इति क-पाठः । ४' भाव्यते ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org