________________
सूत्रं ५] - स्वोपज्ञभाष्य-टीकालङ्कृतम्
५३ पर्यवसानम् । एवं सर्वेषां सत्त्वानामप्यप्रियं वधबन्धच्छेदनपाटनोल्लम्बनादिहेतुकमात्मानुमानादवसेयमित्येवमालोचयतः कृतिनो मनसि निश्चित भवतिष्ठते । अतो हिंसाया व्युपरमः श्रेयानिति ॥
अनृतभाषणमपि दुःखमेवेत्यभिधित्सुराह
भा०-यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीवं दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद् व्युपरमः श्रेयान् ॥
टी०-यथा ममेत्यादि । मिथ्याभ्याख्यानं प्राग व्याख्यातं, तेन मिथ्याभ्याख्यानेन-अलीकाध्यारोपेण अभ्याख्यातस्य-अभिमुखमाख्यातस्याभियुक्तस्य प्रकाशितस्य चानेनेदं कृतमुक्तं वेति तनिमित्तं यथा मम प्रकृष्टं तीवं दुःखं भूतम्-उत्पन्नपूर्वमित्यर्थः, सम्प्रति वा भवत्यलीकाध्यारोपात् तथा सर्वसत्त्वानां तादृगेव तीव्र दुःखमभ्याख्यानहेतुकमुपजायतेऽस्मिन्नेव लोके, अमुष्मिन् पुनर्लोके मिथ्याभ्याख्यानपरो यत्र जन्म प्रतिलभते तत्र तत्र तादृशैरेवाभ्याख्यानैरभियुज्यमानः सदा दुःखमनुभवतीत्यनृताद् व्युपरमः श्रेयानिति ॥
हिंसानृतभाषणदुःखवत् स्तेयमपि दुःखमेवेत्याह
भा०-यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति स्तेयाद् व्युपरमः श्रेयान् ॥
टी०-यथा ममेत्यादि । यथा मम खद्रव्यस्येष्टस्य वियोगेऽपहारक्रियया तस्करैः कृते दुःखं शारीरं मानसंवा पूर्वमभूत् भवति वाऽधुना तथा सर्वसत्त्वानाम् । अतः स्तेयाद व्युपरमः श्रेयानिति ॥ यथा च हिंसानृतस्तेयानि दुःखस्वभावानि,
भा०–तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव । स्यादेतत् स्पर्शनसुखमिति। तच न । कुतः व्याधिप्रतीकारत्वात् कण्डपरिगतवचाब्रह्मव्याधिप्रतीकारत्वात् ॥
टी०-पूर्वदुःखतुल्यतामतिदिशति । मायालोभौ रागः । क्रोधमानौ द्वेषः । माया छनरूपा । तदाकारपरिणामश्च हिंसानृतस्तेयेषु प्रवतते । लोमोऽपि गाध्यलक्षणस्तत्परिणामश्च मांसादिगायोदुक्तोऽवग्रहणेन चौर्येण चैतेषु प्रवर्तते। तथा क्रोधमानाभ्यामपि प्रेरितो हिंसादिषु प्रवर्तते इत्यत्यन्तप्रसिद्धम् । 'मैथुनस्यापि तावेव रागद्वेषौ निदानं, रागद्वेषकारणत्वाच मैथुनमपि दुःखमेवेत्यवधार्यते । रागद्वेषावात्मनः स्वभावः-कारणं यस्य तद् दुःखमेव रागवेषात्मकत्वाद् हिंसादिवत् । स्यादेतदित्यादिना ग्रन्थेनाशङ्कते। प्रसिद्धिरियम् -योषितामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरम्भणपीनस्तनतटीनखमुखावदारणगुह्यसंयोगवीर्यनि
२ 'जन्मनि ' इति ङ-पाठः । ३ 'परिणतश्च' इति ङ-पाठः ।
१ 'निश्चेतमव.' इति खङ-पाठः। ४ 'गूतस्यापि ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org