________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ टी-न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेरिति । उपभुञ्जानस्यापि चास्य तृप्तिरसम्भाव्याऽनेरिन्धनरिव प्रक्षिप्यमाणैः प्रवृद्धज्वालाकलापस्य प्रत्युत वृद्धिरेव जायते, एवं परिग्रहवतः प्राज्यद्रविणराशेरपि प्रतिक्षणमपूर्वापूर्वद्रव्यावाप्तौ सन्ततैवेच्छा विजृम्भते । इच्छायाश्वानिवृत्तौ तृप्त्यभावः । न चातृप्तः सुखलेशेनापि युज्यत इति । अपुण्योदयादपि क्षयो भवति । विभवस्य दक्षिणोत्तरमथुराधिवासिवणिग्द्वयप्राप्तिप्रणाशाख्यानकाद् भावनीयः । तमाशे च हृदयातिसारग्रहणीदोषग्रहावेशदौर्बल्यमरणावसानः शारीरो मानसश्च क्लेशः। लोभाभिभूतस्वाचेत्यादि । लोभकषायानुरक्तचित्तो लोभाभिभूतः-तृष्णापिशाचिकया वशीकृतस्तद्भावो लोभाभिभूतत्वं तसाच्चेति । चशब्दः समुच्चयार्थः । इदं कर्तव्यमिदं न कर्तव्यमिति नापेक्षते-नालोचयति । तत्र कर्तव्यं कार्य यत्र प्रवर्तते पुरुषस्तदात्वायत्योः सुंखार्थ, तच्च नापे. क्षते तृष्णान्धः । शुचि कर्मानुष्ठानं, अकर्तव्यं-अकार्य तत्राप्यनालोच्य प्रवर्तते, न प्रत्यवायान् निभालयति । यतः पितरमपि हिनस्ति मातरमप्युच्छिनत्ति पुत्रमपि व्यापादयति भ्रातरमपि जिघांसति प्रियां जायामपि ज्ञपयतीत्येवमकार्यमेतदिति नापेक्षते । प्रेत्य चेत्यादिना पारलौकिकप्रत्यवायप्रदर्शनं, प्रकर्षकाष्ठाप्राप्तस्तृष्णाकषायः कृमिरागानुकारी तत्परिणामश्चायमात्मा नरकादिपूपपद्यत इत्यागमः । लुब्धोऽयमित्यादिना त्वैहिकमेव प्रत्यवायशेषमाचष्टे । लुब्धस्तृष्णावानदाता सञ्चयैकचित्तो न कस्मैचिद् दुष्कृतमपि ददातीत्यक्षिलम्बनम् । निन्द्यते च, जनसमवायेष्वयशो लभत इति प्रतिपादयति । अतः परिग्रहाद् व्युपरमः श्रेयानिति ॥४॥
किश्चान्यत् इत्यनेन सम्बन्धमाह । हिंसादयः प्रक्रान्ताः किश्चेत्यनेनोपेक्ष्यन्ते । एतेषु हिंसादिष्विदमन्यद् भावयेत् । तदाहहिंसादयो दुःखम् सूत्रम्-दुःखमेव वा ॥ ७-५॥
टी.--वाशब्दो विकल्पार्थः । अपायावद्यदर्शनं भावयेत् , दुःखमेव वा भावयेदिति, समुच्चयार्थो वाशब्दः । दुःखमेव च भावयेत् , अपायावद्यदर्शनं चेति । एवकारोपादानात् सुखलवगन्धोऽपि नास्तीति प्रतिपादयति । दुःखमेव केवलं हिंसादयो न सुखमपीति । एनमेवार्थ भाष्येण स्पष्टयति
भा०-दुःग्वमेव वा हिंसादिषु भावयेत् । यथा ममाप्रियं दुःखं, एवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् ।।
टी०-दुःखमेव वेत्यादिना । हिंसादिष्विति हिंसानृतस्तयाब्रह्मपरिग्रहेषु विषयभूयमापनेषु दुःखहेतुषु दुःखस्वभावेषु च दुःखबहुलतामेव भावयेदिति केन प्रकारेणत्याहयथा ममाप्रियं-न प्रीतिकारि दुःखं अनिष्टसंयोगनिमित्तं शरीरमनःपीडात्मकं व्यापति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org