________________
सूत्रं ४ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-परदारेत्यादिना ऐहिकामुष्मिकप्रत्यवायोपदर्शनम् । परेषां दाराः परदाराःपरपरिगृहीतयोषितः । श्रुतज्ञानप्रतिपिद्धश्च सर्वो मैथुनव्यापारः परदारशब्दवाच्यः, तदभिगमनं-तदासेवनं (तेन) जनितानिहैव वैरपरम्परा शिरश्छेदनं ताडनं बन्धनं द्रव्यापहारं, आदिग्रहणात् नानाविधाः,प्रतिलभत इति, एत एव प्रत्यपायाः। प्रेत्य चेत्यादिना पारलौकिकात्यपायदर्शनम् । तस्मादब्रह्मणो व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातादिप्रवृत्तः प्रत्यवायेन युज्यते,
भा०–तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां परिग्रहस्य विपाकः कव्यादशकुनानामिहैव तस्करादीनांगम्यो भवति । अर्जनरक्ष
णक्षयकृतांश्च दोषान् प्राप्नोति ॥ टी०–तथा परिग्रहवानित्यादि । शास्त्राननुज्ञातो मूर्छास्पदं च परिग्रहः तद्वान् परिग्रहवानिति । ऐहिकप्रत्यवायप्रदर्शनार्थ शकुनिरिवेत्यादिदृष्टान्तग्रन्थोपन्यासः परप्रत्यायनप्रयोजनः । मांसपेशीति । मांसखण्डमेव दीर्घ पेश्युच्यते । आदानमोक्षणव्यापारवत्वात्: पादोऽपि हस्त एव शकुनेः, मांसपेशी हस्ते यस्येति मांसपेशीहस्तः । व्यधिकरणानामपि गमकत्वाद् बहुव्रीहिः कण्ठेकालवत् । अन्येषां कव्यादशकुनानामिति । आममांसभक्षा: क्रव्यादा अभिधीयन्ते । कृतविकृतशब्द उपपदेऽपि प्रेत्ययोद्देशः, पृषोदरादित्वाच कृतविक तशब्दस्य ऋव्यादेशः। कृतविकृतपकमांसभक्षास्तु क्रव्यादाः। कर्मण्यणेवेति। मांसपेशीपरिग्रहहेतोःक्रव्यात्पतत्रिणामिहैव गम्यः-अभिभवनीयः, चञ्चचरणनखमुखपक्षतिप्रहतः परिशटत्पतत्रव्रजः शरणार्थी वियति नश्यन् निरालम्बनः परिश्रान्तस्तरुशिखराद्युपत्रप्राप्तिसमनन्तरमाक्रम्य बलादपहृतमांसपेशीकः किश्चिदुच्छ्रसन् कण्ठगतप्राणः कृच्छाद् विमुच्यते शकुनिभिः। तस्करादीनां च गम्यः परिग्रहवान् । आदिग्रहणाद् राजदायादपरिग्रहः । तस्करादयः प्रसभं चोर्येण वाऽपहारमाचरन्त्यभिभूयेति । अर्जन, उपात्तस्य पालनं रक्षणं, क्षयो -नाश इत्यजेनादिकृतांश्च परिग्रहवान् अवाप्नोति दोषान् । तत्राजेनं न्याय्यमन्याय्यं वा । न्याय्यं वाणिज्यकर्मकरत्वं कृष्याधुपायम् । तच्चातिलेशयुक्तम् । अन्याय्यं तस्करत्वाद्युपायसाध्यम् । तत्रापि वधबन्धविशसनादिदोषाः। रक्षणमपि सूत्रसुचेतसो (१) रात्रिंदिवं नृपदहनतस्करदायादमूषिकादिभ्यः क्लेशबहुलम् । क्षयोऽप्युपभोगादपुण्योदयाच । तत्रोपभोगकालमधिकृत्येदमाह
_ भा०-न चास्य तृप्तिर्भवतीन्धनैरिवाने, लोभाभिभूतत्वाच कार्याकार्यानपेक्षो भवति, प्रेत्य चाशुभांगतिं प्राप्नोति, लुब्धोऽयमिति च गर्हितो भवतीति परिग्रहाद् व्युपरमः श्रेयान् ॥४॥ किश्चान्यत्
..
'विप्रत्ययादेः' इति ग-पाठः । २ 'दुच्छ्वासात् ' इति ड-पाठः । ३ 'सूचित' इतिःङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org