________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ टी-तथा स्तेन इत्यादि । स्तेनः परकीयद्रव्यापहारे प्रसक्तमतिः-सक्तचित्तः। सर्वस्येति अपहियमाणद्रव्यादिस्वामिन उद्वेगंजनयति । इहैव चेत्यादिना । हस्तादीनामवयवानां छेदनं-शरीरात् पृथक्करणं, भेदनं तु तथा सन्निविष्टानामेव वेधनपाटनादिकम्। वध्यपानमिति । वध्यो व्यापाद्यस्तस्य पानं, मद्यपानस्य प्रधानत्वात् , तत्पूर्वकमन्यदपि करवीरकुसुममालामरणखरघटिकावलम्बमषीम्रक्षणचटकपंचकनान्यकरणम् । मारणं-प्राणव्यपरोपणम् । आदिग्रहणात् स्वमांसखादनबन्धोत्कर्तनकपर्दिकामार्गणप्रकारपरिग्रहः । प्रेत्य चेत्यायुक्तार्थम्, अतस्तद्व्युपरमः श्रेयान् । स्तेयात्-चौयोद् व्युपरमः श्रेयानिति ॥
यथा प्राणातिपातालीकास्तेयप्रवृत्ताः प्रत्यवायान् भूयसः स्पृशन्ति,
भा०-तथा अब्रह्मचारी विभ्रमोद्घान्तचित्तो 'विप्रकीर्णेन्द्रियो मदान्धो गज भब्रह्मणो विपाका
... इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यान
" भिज्ञो न किञ्चिदकुशलं नारभते । टी–तथा अब्रह्मचारीत्यादि । अब्रह्मचारी-मैथुनसेवी । विभ्रमो-विलास विशेषस्तेनोद्धान्तं चित्तं-चलमनवस्थितं यस्येति । विप्रकीर्णेन्द्रिय इति, तुच्छे विशिष्टे च विषये प्रवर्तितेन्द्रियवृत्तिः मनोज्ञेषु शब्दादिषु रागाङ्गेषु रागानुरक्तः, अमनोज्ञेषु द्विष्टेषु शब्दादिषु द्वेषाभ्युक्तात्मस्वरूपः । मदान्धो गज इवेत्यादिना हस्तिमूर्खण सह साधर्म्य दर्शयति । इतरथापि तिर्यश्चोऽपि हिताहितप्रवृत्तिनिवृत्तिपोलोचने अक्षमाः, स्वल्पज्ञानक्षयोपशमत्वात् , अतिशयेन तु मदकाले गुञ्जन्मनोहारिध्वनिमधुकरालीढमदवारिनिर्झरस्नपितकपोलभित्तिः अनाहताऽऽधोरणव्यापादितनिशिताङ्कुशतिग्मायवेधजनितव्यथो मत्तगज इव शर्म-सुखं नोपलभते नावाप्नोतीतियावत् । विभ्रमोद्धान्तचित्तत्वात् (वि)प्रकीर्णेन्द्रियत्वाचेति युक्तिद्वयम्,अवितृप्तस्य चकुतः सुखेन सम्बन्ध इति । मोहाभिभूतश्चेत्यादिना मोहनीयकर्मोदयं सूचयति । स्त्रीपुंनपुंसकवेदोदयाभिभूतः स तथा विजृम्भत इति । चशब्दात् पूर्वोक्तविधिसमुच्चयः । इदमकार्य इदं कार्य च नाभिजानाति ग्रहाविष्टपुरुषवत् परवशत्वात् , ततश्च न किञ्चिदकुशलं न प्रारभते, निर्विवेकत्वात् सर्वमेव कुशलं मन्यत इत्यभिप्रायः ॥
मा०-परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदनपरदारगमनस्य फलम् वधबन्धनद्रव्यापहारादीन् प्रतिलभतेऽपायान् , प्रेत्य चाशुभा
गति गर्हितश्च भवतीति अब्रह्मणो व्युपरमः श्रेयानिति ॥
'बध्योपायः' इति क-ख-ख-पाठः। २ 'पञ्चनाग्न्यकरण' इति ग-पाठः। ३ 'प्रकीर्णे.' इति ख-ग-पाठः। 'विर्यग्नातिः' इति स-पाठः । ५ 'अक्षमा' इति -पाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org