________________
सूत्र 2 ]
स्वोपज्ञभाग्य–टीकालङ्कृतम्
आदिग्रहणादुल्लम्बन शिरश्छेदादिभिः प्रतिलभत इति प्रतिप्राप्नोति । कृतस्य प्राणातिणतस्य च फलप्राप्तिरिवेति । प्रेत्य चेत्यादिना फलमामुष्मिकं दर्शयति । प्रेत्य चेति मृत्वा । अशुभा गतिः - नरकतिर्यक्कुमानुषत्वानि । गर्हितो - निर्दितः । प्राक्तनजन्मोपात्ताशुभकर्मविपाकोऽयमस्य पापकारिणो वराकस्येत्येवं संम्भावयतो विवेकबलादस्य निर्श्वयप्रत्यय उत्पद्यते - हिंसायास्त्यागो - व्युपरमः श्रेयानिति ॥
भा० - तथाऽनृतवादी अश्रद्धेयो भवति । इहैव जिहाच्छेदादीन् अनृतस्य प्रतिलभते । विपाकः
४९
टी० - यथा प्राणातिपातकारी प्रत्यवायेन युज्यते तथाऽनृतवाद्यपीत्याहअनृतं वक्ष्यमाणलक्षणं तद्वादी भवति अश्रद्धेय इति । अश्रद्धेयः अविद्यमानश्रद्धेयं वचनमस्येति सामर्थ्यादभिसम्बध्यतेऽनृतस्य प्रक्रान्तत्वात् । इहैवेत्यादिना प्रत्यवायमैहिकमामुष्मिकं च दर्शयति - जिह्वाच्छेदादी निति | आदिशब्दात् कर्णनासिकाकरणच्छेदपरिग्रहः ।
भा० - मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यस्तदधिकान् दुःखहेतून् प्राप्नोति प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति अनृतवचनाद् व्युपरमः श्रेयान् ॥
टी० - मिथ्या-अलीकं अभ्याख्यानं - अनृतवचनम् ॥ ननुच मिथ्याग्रहणमतिरिच्यते । यस्माल्लोकेऽभ्याख्यानशब्दोऽनृतवचन एव प्रसिद्ध इति । अभ्याख्यायक एव मिथ्याशब्दः । यद्वोSभ्याङ्पूर्वस्यै चक्षिङो ल्युटि वचनमात्रमभिलापोऽभ्याख्यानशब्देनोच्यते, तद्विशेषणाय चेदमुपादीयते मिथ्येत्येवमर्थवत्, नास्ति अलीकवचनेनैव चारोपयत्यनेनेदं कृतमनेनेद मिति, तेनाभ्याख्यानेनोपन्नदुःखास्तेभ्यश्चेति । पूर्वदोषापेक्षश्चशब्दः । बद्धेति । अविच्छिन्नं वैरं येषां तेभ्यः । तदधिकानिति जिह्वाच्छेदादिभ्योऽपि अतिशयेन यातनाप्रकारान् मिथ्याभ्याख्यानाधिकत्वाद् दुःखहेतून् वधबन्धादीन् प्राप्नोति । तीव्राशयो हि तीव्रस्थित्यनुभावमेव कर्मादत्ते । मुख्यः स्वहेतुराशयस्तत्पुरःसराः शेषहेतवः । प्रेत्येत्यादिनाऽऽमुष्मिकं फलमादर्शितम्, यस्माच्चैवंविधो विपाकोऽनृतवचनस्य तस्मात् तद्व्युपरमः श्रेयानिति ॥
यथा प्राणातिपातालीकानुष्ठायिनौ प्रत्यवाययुक्तौ,
भा०- तथा स्तेनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योद्वेजस्तेयस्य विपाकः नीयो भवति । इहैव चाभिघातवध [बन्धन ] हस्तपादकर्णनासोत्तरौष्ठच्छेदन भेदन सर्वस्वहरणवध्यपान मारणादीन् प्रतिलभते प्रेत्य नाशुभां गतिं गर्हितश्च भवतीति स्तेयाद् व्युपरमः श्रेयान् ॥
१ 'प्रतीतफल ०' इति ङ-पाठः । २ ' निन्द्यः' इति ग-ड-पाठः । ३ ' सम्भावयति ' इति ग-पाठः । ४ 'निश्चय 'उत्पयते' इति ङ-पाठः । ५ ' यदा' इति ग-पाठः । ६ 'स्याचक्षिणरो ल्युट' इति ग-पाठः । ७' बद्धमित्यव • ' इति गड-पाठः । नवतीति' इति घ-पाठः । ९' यातन० ' इति ध-पाठः । १०' भवति' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org