________________
तार्थाधिगमसूत्रम्
[ अध्यायः ७
याणामर्था - विषयाः स्पर्शादयः पञ्चैव येषां मनोज्ञा रागहेतवस्तेषां मनोज्ञानाम् - इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ ग्रहणे सति गार्ध्यवर्जनम् । गार्ध्यं -- स्नेहः -- तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः । तथा अमनोज्ञानाम् अप्रीतिहेतूनां ग्रहणे द्वेषवर्जनम् । द्वेषःक्रोधमानपरिणामः तत्त्यागात् पञ्चैता भावना भाव्यमानाः प्रतिक्षणमा किञ्चन्यं परिपूरयन्ति । ममत्वलक्षणो भावतः परिग्रहः तद्व्यवच्छेदादपरिग्रहतेति ॥ ३ ॥
४८
किञ्चान्यदिति सम्बध्नाति, भावनाप्रस्तावेऽन्यदपि मोक्षगुणं भावयेदिति । इतिशब्दः अप्यर्थे । प्रतिव्रतं पञ्च पञ्च भावनाः प्रतिपादिताः । सम्प्रति तु सर्वव्रतसामान्यभावनाः कथ्यन्त इति ॥
सूत्रम् - हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥ ७४॥
भा० – हिंसादिषु पञ्चस्वास्रवेषु इहामुत्र चापायदर्शनम् अवद्यदर्शनं च भावयेत् ॥
टी० - हिंसा आदिर्येषां तेषु हिंसादिषु इहेत्यस्मिन्नेव लोके अमुत्रेत्यमुष्मिन् परलोके नरकादिजन्मनि अपाय:--: :- अनर्थपरम्परा अवयं-गर्हितं पापं तद्विपाकान्नरकादिषु तीव्र दु:खानुभवनमपायावद्ययो दर्शनम् - उपलब्धिः, उपलभमानश्च न प्रवर्तते हिंसादिषु, ज्ञानपूर्वकत्वात् क्रियानुष्ठानस्येति । एनमेवार्थ भाष्येण प्रपञ्चयति - हिंसादिष्वित्यादिना । हिंसादिष्वासवेषु कियत्सु ? पञ्चस्वित्याह । हिंसानृतस्तेयाब्रह्मपरिग्रहेषु आस्रवा उक्तलक्षणाः तेष्वपायदर्शनमवद्यदर्शनं च भावयेत् । इहैव मी प्रत्यवाया हिंसादिषु प्रवृत्तस्य दृश्यन्ते, पापविपाकश्च दारुणोऽमुत्रेत्येवं मुहुर्मुहुर्भावयेत् ॥
भा०—- तद्यथा - हिंसायास्तावत् हिंस्रो हि नित्योद्वेजनीयो नित्याहिंसाया विपाकः नुबद्धवैरश्च । इहैव वधबन्धपरिक्लेशादीन् प्रतिलभते प्रेत्य शुभां गतिं गर्हितच भवतीति हिंसाया व्युपरमः श्रेयान् ॥ टी० - तद्यथेत्यादि । तयोरपायावद्ययोर्विभागमाचक्षाणो हिंसायास्तावदित्याह । हिंसासम्बन्धिनी तावदपायावद्ये प्रकाश्येते पश्चादलीकानाम् । 'हिंसनशीलो हिंस्रः - प्राणव्यपरोपणे जातशक्तिः । हिशब्दो यस्मादर्थे । नित्यं सततमुद्देजनीयः- संत्रासकारी । 'कृत्यल्युटो बहुलं' (पा० अ०३, पा०३, सू०११३)इति कर्तरि कृत्यप्रत्ययः । सर्वदा उद्वेजको निसा (निःसी) मायुधो भीषणवेषो ललाटतटारोपितभ्रूभङ्गः प्रकृष्टामयेर्ण्यारसनिर्भरारुणलोचनो गाढदष्टदशनच्छदः सच्चानामुद्वेगकारीति प्रतीतम् । नित्यानुबद्धवैरश्चेति । नित्यमनुबद्धं - प्रसक्तं वैरमस्येति नित्यानुबद्धवैरः, सर्वदा प्रवृत्तवैरसन्तानश्च त (य) स्मान्नित्योद्वेजनीयो नित्यानुबद्धवैरश्च भवति । तस्मादिहैवेत्यभिसम्बन्धः । इहैवेत्यस्मिन्नेव लोके वधः-ताडनं द्विदलकशादिभिर्बन्धः पश्चात् त्पिण्डन हडीनिग - डगलशृङ्खलादिकः परिक्लेशोऽङ्गुष्ठग्रहणोष्मंस्थापनजलावसेककाष्ठेष्टकरोपणादिप्राणव्यापत्तिः,
१ 'हिंसाशीलो' इति ग-पाठः । २ 'णोष्णस्थापन ' इति ङ-पाठः । ३ ' व्यापञ्च ' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org