________________
४७
सूत्रं ३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
भा०–ब्रह्मचर्यस्य स्त्रीपशुपंण्डकसंसक्तशयनासनवर्जनम् , ब्रह्मचर्यस्य पञ्च रागसंयुक्तस्त्रीकथावर्जनम्, स्त्रीणां मनोहरेन्द्रियालोकवर्जभावनाः नम्, पूर्वरतानुस्मरणवर्जनम् , प्रणीतरसभोजनवर्जनमिति ॥
टी–अब्रह्मासेवननिवृत्तिः ब्रह्मचर्यम् । तस्यापि पञ्च भावनाः, तद्यथा-स्त्रीत्यादि भाष्यम् । स्त्रियो रूढ्या देवमानुषभेदाद् द्विविधाः । पशुग्रहणात् तिर्यग्जातिपरिग्रहः । तत्र वडवा-बालेयी-गो-महिष्य-जाविकादिषु सम्भवति मैथुनम् । एताश्च सचित्ताः, अचित्ताः स्त्रियः पुस्तलेप्यचित्रकर्मादिषु बहुप्रकाराः। पण्डकास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः योषास्यसेवनाभिरताः क्लीवा इति प्रसिद्धाः, कृतद्वन्द्वैरेभिः संसक्तमाकुलं शय्यते यत्रास्यते च तच्छयनासर्न प्रतिश्रयसंस्तारकांसनादि, तच्च बहपायत्वाद् वर्जनीयमित्येवमात्मानं भावयेत् । तथा स्त्रीपशुपण्डकानामसन्निधानेऽपि रागसंयुक्तस्त्रीकथावजेंनम् । मोहोद्भवः कषायो रागः तदाकारपरिणामो रागसंयुक्तः । स्त्रीणां कथा स्त्रीकथा, रागसंयुक्तस्य स्त्रीकथा, अथवा रागसंयुक्ता चासौ स्त्रीकथा चेति रागानुबन्धिनी देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा वात्येव चित्तोदधेरवश्यंतया विक्षोभमातनोति तस्मात् तद्वजेनं श्रेय इति भावयेत् । तथा स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं मनोहराणि मानोन्मानलक्षणयुक्तानि दर्शनीयानि मृजावन्तीन्द्रियाणि योषितामपूर्व विस्मयरसनिभरतया विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छवि नयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिजज्वलनमादीपयति, किमुत विकटकटाक्षकवचितम् । एवं यथाविभागसनिविष्टावयवानि श्रोत्रघ्राणवदनपीनपयोधरभरजघनस्थलादीनि वाच्यानि । त्वगिन्द्रियभेदत्वात् स्तनकलशाधुपन्यासः। इत्येवं तदालोकनायुपरतिः श्रेयसीति भावयेत । तथा पूर्वरतानुस्मरणवजेनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपयोयस्तत्र रतं-क्रीडितं-विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामानिस्तत्मरणेन्धनानुसन्धानतः सन्धुक्षते, अतस्तद्वर्जन श्रेय इति भावयेत् । तथा प्रणीतरसभोजनवर्जनमिति । प्रणीतो-वृष्यः स्निग्धमधुरादिरसः क्षीरदधिनवनीतसर्पिर्गुडतैलपिशितमद्यापूपादिस्तदभ्यवहारो-भोजनं ततो मेदोमज्जाशुक्राग्रुपचयस्तस्मादपि मोहोद्भवः, अतः सतताभ्यासतः प्रणीतरसाभ्यवहारो वर्जनीय इत्यात्मानं भावयेद् ब्रह्मचर्यमिच्छनिति ॥
भा०-आकिञ्चन्यस्य पञ्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दाना मनोज्ञानां प्राप्ती गार्थ्यवर्जनममनोज्ञानां प्राप्तौ द्वेषवर्जनमिति ॥३॥ किश्चान्यदिति ।
टी-किञ्चनं बाह्याभ्यन्तरपरिग्रहः । अविद्यमानकिञ्चनः अकिञ्चनस्तद्भाव आकि वन्यं-अपरिग्रहता तद्भावनाः पञ्च । तदभिधित्सयेदमाह-पश्चानामित्यादि । पश्चानामिन्द्रि
१'षण्डक. ' इति घ-पाठः । २ . संकुलमाकुलं ' इति क-पाठः। ३ 'काशनादि ' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org