________________
४६
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ चिद् वितथं भाषते तस्करोऽयं पिशाचो वा मया रजन्यां दृष्ट इति, तस्मानिर्भयवासनाध्यानमात्मनि विधेयमिति । हास्यं हसनं-मोहोद्भवः परिहासस्तत्परिणतो ह्ययमात्मा परिहसन् परेण सार्धमलीकमपि ब्रूयात, तस्य परिजिहीर्षया च हास्यप्रत्याख्यानमभ्युपेयम् । एताः पश्चापि भावयन् भावनाः सत्यव्रतरक्षणक्षमो भवतीति ।
तथाऽदत्तादानविरतेः पश्चैव भावनास्तयाचिख्यासयाऽऽह
भा०-अस्तेयस्यानुवीच्यवग्रहयाचनमभीक्ष्णावग्रहयाचनमेतावदित्यवग्रअस्तेयस्य पञ्च भावनाः हावधारणं समानधार्मिकेभ्योऽवग्रहयाचनं अनुज्ञापितपान
भोजनमिति॥ टी०-अस्तेयस्य पश्चेत्याधुपन्यस्यति । आलोच्यावग्रहो याचनीयः। स चायं पञ्चप्रकारः पठितो देवेन्द्र-राज-गृहपति-शय्यातर-साधर्मिकभेदेन । अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरोबाधक इति सञ्चिन्त्य यो यत्र स्वामी स एव याच्यः । अस्वामियाचने तु दोषबाहुल्यमुक्तम् आर्ष एव अकाण्डवीडनायैहिकमामुष्मिकमदत्तपरिभोगजनितं, तस्मादालोच्य अवग्रहो याच्य इत्येवमात्मानं भावयेत् । इत्थं च भावयन्नादत्तादाने प्रवर्तत इति । सकृद् दत्तेऽपि परिग्रहे स्वामिना भूयोऽभीक्ष्णावग्रहयाचन कार्य, अभीक्ष्णं-नित्यं मुहुर्मुहुः पूर्वलब्धपरिग्रहो ग्लानाद्यवस्थासु मूत्रपुरीपोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दातचित्तपीडापरिहारार्थ याचनीयानि, एवं च याच्यामाचरनादत्तादानजनितेनागसा स्पृश्यते । तथा एतावदित्यवग्रहावधारणं एतत्परिमाणमस्यैतावत्परिमितं सर्वतः क्षेत्रमवग्रहीतव्यं इत्येतदेवावधारणं सर्वतश्च परिमाणं तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति । यात्राकाल एव चानवधारणे विपरिणतिरपि वचसि स्याद्वदान्यस्येत्यात्मनोऽपि चादत्तपरिभोगजनितः कर्मवन्ध इति । समानधार्मिकेभ्य इत्यादि। धर्म चरन्ति-आसेवन्ते इति धार्मिकाः, समानाः-तुल्याः प्रतिपन्नकशासनाः सम्यक्त्वादिमुक्तिसाधनसमन्विताः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुज्ञानाद्धि तत्रासनमन्यथा स्तेयं स्यात् । तदनुज्ञातं तु प्रतिश्रयादि समस्तं गृह्णीयादित्येवमात्मानं भावयेत् । तथाऽनुज्ञापितपानभोजनमिति पञ्चमी भावना । अनुज्ञापितम्-अनुज्ञांप्रापितम्--अनुज्ञया खीकृतं पानभोजनं सूत्रोक्तेन विधिना पश्चमानकं पाषण्डमनुप्रविश्य व्यपगताङ्गविकारः पिण्डैषणोपयुक्तः अकृतकारितानुमतमतिसृष्टं कल्पनीयमानीय गुरवे निवेद्यालोचनापूर्वकमभ्यनुज्ञातो गुरुणा मण्डल्यामेकको वा भुञ्जीत । भुजिरत्र पालनेऽभ्यवहारे च व्याख्येयः । ततश्च यावत् किश्चिद्धर्मसाधनमुपकरणमौधिकौपग्रहिकभेदं तत् सर्वमनुज्ञातं गुरुणा वन्दनपुरःसरं गुरुवचनविधिना परिभोक्तव्यम् , एवमात्मनि वासनामादधानो नातिक्रामत्यस्तेयव्रतमिति ॥
१.वाचनीयः' इति ग-पाठः । २ 'नीमूर्ध्वस्थाना' इति क-पाठः । ३ ' चेतसि ' इति -पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org