________________
तत्वार्थाधिगमसूत्रम्
सम्प्रति प्रायश्चित्तमिति शब्दं व्युत्पादयति
भां० - 'चिंती सज्ञानविशुद्धयोः ' धातुः । तस्य चित्तमिति भवति निष्ठान्त मौणादिकं च ॥ एवमेभिरालोचनादिभिः कृच्छ्रस्तपोप्रायश्चित्तशब्दस्य विशेषैर्जनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति, चेतयंश्च न व्युत्पादनम् पुनराचरतीति । अंतः प्रायश्चित्तमपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥ २२ ॥
२५४
टी० - चिती सज्ञानविशुद्धयोर्धातुरित्यादि । भीमसेनात् परवोऽन्यैर्वैयाकरणैरर्थद्वये पठित धातुः सञ्ज्ञाने विशुद्धौ च । इह विशुद्धयर्थस्य सह सज्ञानेन ग्रहणम् । अथवा 'sनेकार्था धातव' इति सञ्ज्ञाने पठितो विशुद्धावपि वर्तते । भाष्यकृता चोपयुज्यमानमेवार्थमभिसन्धाय विशुद्धिरपि पठिता तस्य चित्तमिति रूपं भवति निष्ठान्त मौणादिकं च चेततीति चित्तं विशुद्धयतीत्यर्थः । भावविशुद्धिमुपजायमानां सञ्जानीते चेतति - प्रणिदधानइति । 'अजृष्टसिभ्यः क्तः ' ( उणादिसूत्रे ३७७ ) तस्य च निष्ठासञ्ज्ञा । औणादिकं चैतच्छब्दरूपं चित्तमिति नान्यलक्षणमन्वेष्यम् ' उणादयो बहुलं ' ( पा० अ० ३, पा० ३, सू० १ ) इति चितेरपि क्तः कर्तरि । केन पुनः प्रकारेण विशुद्धिरित्याहएवमेभिरित्यादि । उक्तलक्षणैरालोचनादिभिः पारश्चिकावसानैः कृच्छ्रः- दुष्करैस्तपोविशेषैर्जनिताप्रमादः कृताप्रमादः, अप्रमत्त इत्यर्थः । तं च मूलोत्तरविषयं व्यतिक्रममतिचारमुपयुक्तः प्रायो - बाहुल्येन चेतयति । प्रायोग्रहणमत्यन्तसूक्ष्माति चारव्युदासार्थम् । चेतश्च - सञ्जानानो न पुनराचरति आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते । प्रायः शब्देन वाऽपराधोऽभिधीयते । तेनालोचनादिना सूत्रविहितेन सोऽपराधो विशुद्धयस्यपीति । अतश्च - अस्माच्च हेतोः प्रायश्चित्तमिति ॥ २२ ॥
उक्तं प्रायश्चित्तम् । अधुना विनयोऽभिधीयते । तत्प्रतिपादनायाह
[ अध्यायः ९
विनयस्य चातु- सूत्रम् — ज्ञानदर्शनचारित्रोपचाराः ॥ ९-२३ ॥
विध्यम्
भा० - विनयश्चतुर्भेदः । तद्यथा - ज्ञानविनयः, दर्शन विनयः, चारित्रविनयः, उपचारविनय इति । तत्र ज्ञानविनयः पञ्चविधो मतिज्ञानादिः ।
टी० - ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः । एतद्विवरणायाह – विनयतुर्भेद इति । विनय निर्वचनमुपरि व्याख्यास्यते तांश्चतुर्धा भेदान्नामग्रहमाचष्टे । तथथाशब्दस्तदुपन्यासार्थः । ज्ञानविनय इत्यादि । तत्र - तेषु चतुर्षु भेदेषु ज्ञानविनयस्तावत् पश्च१' चिती सज्ञाने ' इति पाणिनीये ( धा० ३९ ) । २ ' महणमा' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org