SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ एकवि सूत्रं २३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् विधो मतिज्ञानादिः। आदिग्रहणात् श्रुता-ऽवधि-मनःपर्याय-केवलज्ञानपज्ञानविनयस्य रिग्रहः । अस्मिन् सति ज्ञानादिपञ्चके भक्तिर्बहुमानो ज्ञानस्वरूपपञ्चविधत्वम् श्रद्धानं तद्विषयं श्रद्धानं च ज्ञानविनयः । श्रुते च विशेषः-"काले विणए बहुमाणे उवहाणे" इत्यादि ॥ दर्शनधिनयस्य भा०-दर्शनविनयस्त्वेकविध एव सम्यग्दर्शनविनयः । टी०-दर्शनविनयस्त्वेकविध एव । "तत्वार्थश्रद्धानं सम्यग्दर्शनम्" (अ०१,सू०२) इत्येकलक्षणत्वादेकविध एव सम्यग्दर्शनविनयः। तथाईत्प्रणीतस्य च धर्मस्याचार्योंपाध्याय-स्थविर कुल-गण-सङ्घ-साधु-संभोगा(मनोज्ञा १)नां चानासादनाप्रशम-संवेग-निर्वेदानुकम्पाऽऽस्तिक्यानि च सम्यग्दर्शनविनय इति ॥ भा०-चारित्रविनयः पञ्चविधः। सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः टी०-सामायिकादयः प्रागुक्तलक्षणाः सामायिकादिस्वरूपश्रद्धानपूर्वकं चानुष्ठानविधिना च प्ररूपणमित्येष चारित्रविनयः। औपचारिकेत्यादि । उपचरणं उपचारः-श्रद्धानपर्वकः क्रियाविशेषलक्षणो व्यवहारः, स प्रयोजनमस्येत्यौपचारिकः । स चानेकप्रकारः। तस्य विषयनिर्देशार्थमाह भा०-सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेषु अभ्युत्थानासनप्रदानवन्दनानुगमनादिः । विनीयते तेन तस्मिन् वा विनयः ॥२३॥ टी०–सम्पग्दर्शनेत्यादि । सम्यक्त्वज्ञानचरणानि गुणास्तैरभ्यधिका ये मुनयः । आदिग्रहणाद् दशविधसामाचारीसम्पत्परिग्रहः तेषु । अभ्युत्थानासनप्रदानेत्यादि । अभिमुखमागच्छति गुणाधिके उत्थानमासनादभ्युत्थानं अदृष्टपूर्वे च साधुवेषभाजि कार्यमभ्युत्थानम तदनन्तरमासनप्रदान ततो वन्दनप्रतिपत्तिः। गच्छतः कतिचित् पदान्यनुगमनमनुव्रजनम् । आदिग्रहणान्मुकुलितकरकमलद्वयस्य ललाटदेशे न्यासोञ्जलिप्रग्रहः, वस्त्रादिपूजासत्कारः। सद्भूतगुणोत्कीर्तनं सन्मानः । विनयशब्दनिर्भेदप्रदर्शनायाह-विनीयते-क्षिप्यतेऽनेनाष्टप्रकार कर्मेति विनयः। पचायचि करणसाधनम् । विनीयते चास्मिन् सति ज्ञानावरणादिरजोराशिरिति विनयः । अधिकरणसाधने च ॥ २३ ॥ १ सम्पूर्णा गाथा तच्छाया चैवम् “काले विणए बहुमाणे उबहाणे तह अनिन्हवणे । बंजण अत्थ तदुभए अविहो नाणमायारो॥" [काले विनये बहुमाने उपधाने तथा अनिलवने । व्यजनेऽर्थे तदुभये अष्टविधो ज्ञाने आचारः ॥] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy