________________
सूत्रं ८ ]
स्वोपज्ञभाष्य— टीकालङ्कृतम्
भा० - वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषुपधिष्वनभिष्वङ्ग इनि ॥ ७ ॥
●
टी० - वैराग्यं नामेत्यादि । विरागभावो वैराग्यम् । नामेत्यलङ्कारार्थम् । शरीरस्य भोगोऽभ्यञ्जनोद्वर्तनस्नानाङ्गरागधृपपुष्पमाल्यालङ्कारविचित्रनिवसनेष्टाहारादिलक्षणः । संसारश्चातुर्गतिकस्ताभ्यां शरीरभोग संसाराभ्यां निर्वेदो - निर्विण्णता शरीरभोग संसार विषयवैमुख्यमुद्वेगस्तस्मान्निर्वेदाल्लब्धोपशमस्य - प्रतनुकपायस्य बहिर्भवो बाह्यः वास्तुक्षेत्रादिदेशविघः पश्चमव्रते वक्ष्यमाणो रागद्वेषादिराभ्यन्तरश्चतुर्दशभेदस्तत्रैव वक्ष्यते । तेषूपधिवनभिष्वङ्गमूर्च्छा लोभो गार्घ्यं तदाकारः परिणाम आत्मनः । नाभिष्वङ्गः - अनभिष्वङ्गः निरपेक्षता तेषु गार्घ्यमिति ॥ ७ ॥
६३
भा० - अत्राह-उक्तं भवता (अ० ७, सू० १) - हिंसादिभ्यो विरतिर्ब्रतमिति । तत्र का हिंसा नामेति । अत्रोच्यते ।
टी० – अत्राहेत्यादिना सम्बन्धमाचष्टे । अनवधारितहिंसादिलक्षणस्य निवृत्तिर्व्रतमित्यभिहितं भवताऽध्यायादौ, तत्र नावगच्छामः किंलक्षणा हिंसादयो येभ्यो विरतिर्ब्रतमिस्यजानानस्य प्रश्नः - तत्र का हिंसा नामेति । नहि लक्ष्यमुपरत लक्षणव्यापारमभिधित्सितस्यास्य जातुचिदामोदायेति । तत्र तेषु पञ्चसु हिंसादिषु का हिंसा किंलक्षणेति हिंसैव तावत् पृच्छयते । तल्लक्षणवैपरीत्यात अहिंसा सुज्ञानैव । न च भिन्नजातीयानां पदार्थानां युगपल्लक्षणमभिधातुं शक्यम् । अतः क्रमेण निर्देशे सति हिंसामेव तावद् वाचकमुख्यो निरूपयितुमाह- अन्रोच्यत इति । अत्र - हिंसालक्षणप्रश्ने भण्यते तल्लक्षणम्
सूत्रम् — प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ ७-८ ॥
टी० – प्रमाद्यतीति प्रमत्तः कषायविक थेन्द्रियनिद्रासवैर्निमित्तभूतैः । तत्र कषायाः षोडशानन्तानुबन्धादि मेदास्तत्परिणत आत्मा प्रमत्तः । इन्द्रियाणि स्पर्शनादीनि तद्दारकौ रागद्वेषौ । समासादिततत्परिणतिरात्मा प्रमत्तः । स्पर्शनादिनिमित्तभेदात् कषाया एव प्रमादहेतुत्वेनोपन्यस्ताः । प्रमादश्चात्मनः परिणामः कषायादिनिमित्तः, दर्शनावरण कर्मोदयात् स्वापो निद्रा पश्चप्रकारा तत्परिणामाब पीनहत्पूर पित्तोदयाकुलितान्तः करणः पुरुषवदन्धो मूढः कर'चरणविक्षेपशरीर पर्यवसानक्रियाः कुर्वन् प्रमत्तः (आसवो) मद्यं मधुवारशीधुमदिरादि तदभ्यवहारे सत्यागतमूर्च्छ इव विह्वलतामुपेतः प्रमत्तोऽभिधीयते । विकथा स्त्रीभक्तजनपदराजत्रृत्तान्तप्रतिबद्धा । रागद्वेषाविष्टचेताः ख्यादि विकथापरिणतः प्रमत्तस्य योगः । कर्तरि षष्ठी। योगपरि
१ परितः' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org