________________
तयाधिगमसूत्रम्
[अध्यायः ७ कालान्तरेण शिरःपाण्याद्यवयवाभिव्यक्तिर्जनन्यभ्यवहृताहारनिस्यन्दप्रवाहपूरितरसहरणीकुल्यया परिप्रापिताशेषरसास्वादध्मायमानपोषः पुरीपमध्यासीनः पूर्णावयवः परिपाकवशान्मायोनिविवरनिःसृतः स्तन्यपीठिकाहारासेवनोपचीयमानरुधिरमांसकीकसपुरीषप्रस्रवणसं घातः पश्चादागन्तुकशल्यशलाकाग्रभिन्नः श्लेष्मादिधातुप्रकोपोद्भूतश्वयथुः गण्डादिसंस्पर्शाद् घा क्षरदसग्रलवलसिकापूयपटलप्रायपरिणामः सर्वावस्थास्वशुचिरेव काय इत्येवं भावयेत् ॥ एवं च भावयतः संवेगो वैराग्यं च भवतीति संवेगवैराग्यस्वरूपकथनायाह-तत्र संवेगो नामेत्यादि । तत्रेति तयोः संवेगवैराग्ययोः संवेगस्तावदित्थंलक्षणः । नामशब्दो वाक्यालङ्कारार्थम् । भीरु:-भीतिशीलः संसारो-नारकतिर्यङ्मनुष्यामरभवप्रपश्चः संकलदुःखमूलः संसाराद् भीरुः संसारभीरुस्तद्भावः संसारभीरुत्वम् । उद्विजते हि प्रेक्षापूर्वकारी दुःखात् । न जातुचित् प्रवणो भवति । आरम्भाः सूनास्थानानि प्राण्युपघातकराणि ध्यापादनसङ्कल्पपरितापजननप्राणापहारलक्षणाः सर्व एवारम्भाः, चेतनाचेतनवस्तुस्पर्शिनो मृ.विशेषाः परिग्रहाः । तेष्वारम्भपरिग्रहेषु दोषदर्शनादरतिः ऐहिकामुष्मिकप्रत्यपायदोषाः तदर्शनात् तदुपलब्धेर्दुःखमुद्वेगोप्रीतिः-अरतिः तद्वतश्च धर्मे बहुमानो धार्मिकेषु च धमेः क्षमादिदशलक्षणस्तदासेविनो धार्मिकास्तेषु बहुमानो धर्म च । चकार: समुच्चयार्थः । . बहुमानशब्दार्थनिरूपणायाह
भा०-धर्मश्रवणे धार्मिकदर्शने च मनःप्रसाद उत्तरोत्तरगुणाप्रतिपत्ती च श्रद्धेति॥ ____टी.-धर्मश्रवण इत्यादि। प्राक् तावद्धर्मजिज्ञासा ततस्तदभिज्ञप्रच्छेनं पश्चाच्छ्वणम्--आदरेणाकर्णनं ततः सरणानुष्ठाने एप खलु धर्मविषयो बहुमानः । आदरः-चित्तप्रसादः। धार्मिकदर्शने चेति । धार्मिकाः-सम्यक्त्वज्ञानक्रियांनुष्ठायिनः साधवोऽगारिणश्च तद्दशेने च बहुमानः-चित्तप्रमोदपूर्वकोऽभ्युत्थानवन्दनासनदानभक्तपानवस्त्रपात्रोपकरणप्रदानानुव्रजनलक्षणो भक्तिविशेषश्वेतःप्रसादः संवेगस्याभिव्यञ्जकः, उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धति । संवेगमूलगुणास्तावत् सम्यक्त्वादयोऽनगारागारिणोरवश्यंतया सन्ति तेषु सत्सुमौलेषु गुणेषत्तरोत्तरा ये गुणाः प्रकारवत्तया क्रमेणास्थिताः पिण्डोपधिशय्याविशुद्धिलक्षणाः समितिभावनातपःप्रतिमाभिग्रहादयस्तेषत्तरोत्तरेषु स्वशक्त्यपेक्षा प्रतिपत्तिरभ्युपगमोऽनुष्ठानं वद्विषया श्रद्धाऽभिलाप इच्छेत्यनर्थान्तरम् । एवं तावत्संवेगः ॥
१ 'पीठका' इति ग-पाटः । २ — साकल्यदुःख ' इति ग-पाठः । ३ 'प्रश्न' इति ग-पाठः । ४ ' वच्छिन्नाः ' इति -पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org