________________
३३
सूत्र २१]
स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्पातव्यथितविग्रहः, ग्रीष्मेऽपि तीव्रतिग्मांशुगभस्तिव्यूहसंस्पृश्यमानसर्वाङ्गोऽपनीतातपत्राणः। चशब्दः समुच्चितौ । अनुरोधाच्चेति । अनुरोधात् दाक्षिण्यं प्रीतिर्वोच्यते । मित्रस्वजनादेरापदि जातायामपरो यदा तदनुरोधात् प्रीतेर्वा सीददङ्गयष्टिर्विवशोऽकुशलनिरोधमातिष्ठते अरतिपरिगतवपुष्कचतुर्विधाहारविरुचिपरिणामो दैवस्यायुष आस्रवो . वर्तत इति, द्वाभ्यां रागद्वेषाभ्यां मिथ्यादर्शनसहवर्तिभ्यामाकलितो बालः सचावबोधपराङ्मुखः । तस्य पर्यायकथनं करोति-बालो मूढ इत्यनान्तरम् । मूढो विचित्तः । अतत्त्वे तत्त्वाभिनिवेशप्रवृत्तिर्यथावस्थितज्ञेयाननुकूल ज्ञानः । शेषमितिशब्दादि प्राग् व्याख्यातम् । तस्य तपो बालतपः इति । अनेन षष्ठीसमासप्रदर्शनेन समानाधिकरणनियमाभावं दर्शयति । बालं च तत् तपश्चेति बालतपः। बालं-असमर्थ सन्मार्गप्रतिपादने सकलकर्मक्षये वा । तथा बालस्यापि मूढस्य यत् तपस्तद् बालतप इति । कीदृक् पुनस्तदित्याह-तच्चाग्निप्रवेशेत्यादि । अग्निप्रवेशः-अग्नौ धर्माय पतनम् । मरुभृगुः नदीगिरितटाद्यधोदेशो वा तत्र पतनं प्रपातः। जलप्रवेशो-जले निमज्जनम्। आदिग्रहणात् बलायवशासिशल्योल्लङ्घनगृध्रभक्षणशस्त्रपाटनविषगरमरणादिपरिग्रहः । तदेवमित्यादिना समस्तमेव सूत्रार्थमुपसंहरति । तदिति तस्मात् । एवम्-उक्तेन प्रकारेण सरागसंयमसंयमासंयमादीनि चेति । सरागसंयमस्य प्राधान्यख्यापनार्थ भेदेनोपादानम् । इतरेषां निकृष्टत्वाद् यथाक्रमं समस्योपादानम् । आदिग्रहणादकामनिर्जराबालतपसी ग्राह्ये । चशब्दः समुच्चयार्थः । देवस्यायुष आस्रवा भवन्तीति पर्यन्तवर्तिनेतिकरणेन देवायुरास्रवविस्तारो द्रष्टव्यः । कल्याणमित्रसम्पर्कधर्मश्रवणगौरवतपोभावनापात्रदानमरणप्रत्यासन्नवर्तिशीततपनलेश्यापरिणामाव्यक्तसामायिकविराधितसम्यग्दर्शनादि च दैवायुष आस्रवा इति ॥२०॥
भा०-अथ नाम्नः क आस्रव इति । अत्रोच्यते
टी०-एवं ज्ञानदर्शनावरणवेद्यमोहायुषां यथास्वमास्रवाभिधानमवसायानन्तरं पर आह-अथ नाम्नः क आस्रवः । इतिकरणः प्रश्नपरिसमाप्तौ । अत्र प्रश्ने यथावसरविरचितेऽभिधीयते तस्य प्रकारद्वैविध्यावस्थानादशुभनामकर्मास्रवस्तावदभिधीयते ॥
सूत्रम्-योगवकता विसंवादनं चाशुभस्य नाम्नः ॥६-२१ ॥
टी-योगः प्राग् व्याख्यातः । शक्तिरूप आत्मनः करणविशेषः कायवाड्मनोलक्ष. णस्तद्गता कौटिल्यप्रवृत्तिः स्वयमेव योगवक्रताऽनार्जवप्रणिधानं मायाचित्तं योगविपर्यास इत्यनर्थान्तरम् । विसंवादनं सत्यवदभ्युपगमे तदपह्नवोपाये व्युत्थापनम् । चशब्द उभयविशेषसमुच्चयार्थः । अशुभं यन्नामकर्म नरकगत्यादि चतुस्त्रिंशद्भेदं च तस्यात्रवो भवति । भाष्येण तदेव स्फुटयति
भा०-कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न आस्रवो भवतीति ॥ २१ ॥
१' धायावसाया• ' इति ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org