________________
आस्रवा:
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ६ टी-कायवाङ्मनोयोगवक्रतेत्यादिना । कायादयः कृतद्वन्द्वास्तेषां वक्रताकायादिगतो मायाव्याहारः। सम्यरु प्रतिपत्तौ तद्विपरीतप्रतिज्ञापनव्यापारो विसंवादनमशुभनामकर्मण आस्रवः । कायस्य तावत् कुब्जवामनविक(कृ)टाङ्गप्रत्यङ्गावयवाक्षिनिकोचननासाभङ्गमलव्याधिविदूषकस्त्रीपुरुषभृत्यभृतकस्कन्दरुद्रराजर्षिविशेषावतारैरसद्भावोद्भावनं वक्रता । वाग्वक्रता यथा लाटः स्वभाववाविषयोपरतभावः गौडमालवाणेव विषयवासिनामायोणामनार्याणां च तद्भावो विडम्बनापरता । मनोवक्रताऽन्यदेव मनसि व्यवस्थाप्य लोकपतिपू. जासत्काराद्याजिहीर्षों बिभ्राणोऽन्यद् वाचा समाचरत्यन्यत् कायेन चेष्टते। एवं स्वविषयैव योगवकता। विसंवादनं तु परविषयम् । तच्च विसंवादनं निर्दिदिक्षितस्यार्थस्यावस्थितस्वमावस्यान्यथाकरणं पितापुत्रयोर्वा प्रीतिभाजोः परस्परं प्रीतिभेदकरणं वा विसंवादनम् । एवमेते कायादिविकल्पा नानोऽशुभस्यास्रवा भवन्ति । अनुक्तसमुच्चयार्थो वा चशब्दः । मिथ्यादर्शनमायाप्रयोगपिशुनास्थिरचित्तताकूटमानतुलाकरणसुवर्णादिप्रतिरूपकत्वानुष्ठानकूटसाक्ष्यदानाङ्गोपाङ्गच्यावनवर्णगन्धरसस्पर्शाद्यन्यथापादनयन्त्रपचरक्रियानिकृतिभूयिष्ठतापरनिन्दात्म
प्रशंसामारणानृतवचनपरद्रव्यादानमहारम्भपरिग्रंहोज्ज्वलवेषरूपमदपरुषाअशुभनाम्न
सभ्यप्रलापाकोशमौखर्यसौभाग्योपघातवशीकरणप्रयोगपरकुतूहलोत्पाद
नालङ्कारदानचैत्यव्यपदेशगन्धमाल्यधृपादिचार्य विडम्बनोपहासेष्टकापाकदावामिप्रयोगप्रतिमायतनप्रतिश्रयारामोद्यानविनाशनतीवकषायपापकर्मोपजीवनादीनि चाशुभस्य नाम्न आस्रवा इति ॥ २१ ॥ अथ शुभनामकर्मणः क आस्रव इत्युच्यते--
सूत्रम्-विपरीतं शुभस्य ॥ ६-२२ ॥ भा०-एतदुभयं विपरीतं शुभस्य नाम आस्रवो भवतीति ॥ २२ ॥ किन्चान्यत्
टी०–विपरीतमिति । एतदेवोभयमनन्तरसूत्रोक्तमास्रवद्वयं विपरीतं सदवक्रता योगानां सम्यक् प्रयोग आर्जवयुजस्त्वयं, अविसंवादनं वाऽविप्रलम्भनम्-अविप्रतारणं परस्परविपरीतग्रहणवदेव । चशब्दः समुचितौ । वैपरीत्यग्रहणमपि धार्मिकदर्शनसम्भ्रमसंसारभीरुताप्रमादवर्जनसद्भावार्पणासम्यक्त्वार्जवादयः शुभस्य नामकर्मणो मनुष्यगत्यादेः सप्त त्रिंशदुदयस्यास्रवा भवन्तीति ॥ २२ ॥
किश्चान्यदित्यनेन सम्बन्धमाचष्टे । अन्यच्चानुक्तं विशेषेण तीर्थकरनाम, सामान्येन शुभनामकर्मण आस्रवे प्रतिपादितेऽप्यचिन्त्यानुपमशक्तिप्रभावस्य त्रिप्रकारातिशयविशेषत्रैलोक्यविभूतिविजयिनस्तीर्थकरनाम्न इमे आस्रवा वेदितव्याः१. रसद्भावनं ' इति ङ-पाठः । २ गोपिनास्थिर०' इति स्व-ग-पाठः ।।' प्रहादू जलवेस: 'ति -पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org