________________
सूत्रं २३ ]
स्वोपज्ञभाग्य-टीकालङ्कृतम्
सूत्रम् - दर्शन विशुद्धिर्विनयसम्पन्नता शीलवतेष्वनतिचारोऽनीक्ष्णं ज्ञानोपयोग संवेगौ शक्तितस्त्यागतपसी सङ्घमाधुममातीर्थकरनाम - धिवैयावृत्त्यकरणमर्हदाचार्य बहुश्रुतप्रवचन भक्तिरावश्यकर्मण आस्त्रयाः कापरिहाणिर्मार्गप्रभावना प्रवचन वत्सललमिति तीर्थकृत्त्वस्य ।। ६-२३ ॥
भा० – परमप्रकृष्टा दर्शनविशुद्धिः । विनयसम्पन्नता च । शीलवतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । अभीक्ष्णं ज्ञानोपयोगः ।
टी० – परमप्रकृष्टा दर्शनविशुद्धि रित्यादि भाष्यम् । परममित्यतिशयेन सुष्ठु प्रकृष्टाप्रकर्षपर्यन्तवर्तिनी परित्यक्तशङ्कादिदोषा । शङ्कादयश्च वक्ष्यमाणाः (अ० ७, सू० १८ ) सम्यग्दर्शनमलाः । का पुनरसौ परमप्रकृष्टेत्याह – दर्शन विशुद्धिरिति । " तत्त्वार्थश्रद्वानं सम्यग्दर्शनं " (अ० १, सू० २) उक्तलक्षणविधानं दृष्टिः- दर्शनं तत्त्वविषया रुचिः - प्रीतिः जीवादिषु प्रत्ययावधारणं तस्य दर्शनस्य नाना (वि) शुद्धिः - निर्मलता यथा नाना चित्रं विचित्रमिति, क्षायोपशमिकौपशमिक क्षायिकाणां सम्यग्दर्शनानां यथास्त्रं नाना शुद्धिर्विशुद्धिस्तीर्थकर नामकर्मण आस्रवः । विनय सम्पन्नता चेति । विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः । स च ज्ञानदर्शनचारित्रोपचारभेदेन चतुर्धा । तत्र ज्ञानविनयः कालविनयबहुमानोपधानादिः । दर्शविनयस्य भेदप्रभेदाः विनय निःशङ्कनिः काङ्क्षादिभेदः । चरणविनयः समितिगुप्तिप्रधानः । उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिभेदः । एवंविधेन विनयपरिणामेन परिणतः कर्ता विनयसम्पन्न उच्यते, तद्भावो विनयसम्पन्नता । सा च तीर्थकरनामकर्मण आस्रवः । शब्दः समुच्चयार्थः । तथा शीलवतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । शीलमुत्तरगुणाः पिण्डविशुद्धिसमितिभावना [दयः] प्रतिमाभिग्रहलक्षणा मुमुक्षोः समाधिहेतुत्वात् शील शब्दाभिधेयाः । व्रतग्रहणात् पश्च महाव्रतानि रजनी भक्तविरतिपर्यवसानान्याक्षिप्तानि । शीलानि च व्रतानि च शीलव्रतानि । तेष्विति तद्विषयः । आत्यन्तिकः - अत्यन्तभवः संयमः प्रतिपत्तिकालादारभ्य यावदायुषः क्षयस्तावदविश्रान्त्या भवत्यात्यन्तिकोऽप्रमादः सम्बध्यः । भृशमिति प्रकर्षवचनः । प्रकृष्टोऽप्रमादो भृशमप्रमादः । विकटेन्द्रिय-विकथा - कषाय- निद्रालक्षणः पञ्चधा प्रमादः । अनेन ह्याविष्टो जीवः कार्याकार्यविमुखत्वादाधाकर्मादि प्राणातिपातादि वा परिहर्तुमक्षमो भवति । न प्रमादोऽप्रमादः । प्रमादपरिवर्जनमप्रमत्तता । अनतिचार उच्यते-अतिचरणमतिचारः - स्वकीयागमातिक्रमः । नातिचारोऽनतिचारः । उत्सर्गापवादात्मक सर्वज्ञ प्रणीत सिद्धान्तानुसारितया शीलव्रतविषयमनुष्ठानमित्यर्थः । एतच्च तीर्थकानामकर्मण आस्रवः । अभीक्ष्णं ज्ञानोपयोग इति । अभीक्ष्णं मुहुर्मुहुः - प्रतिक्षणं ज्ञानं - द्वादशाङ्गंप्रवचनं प्रदीपाङ्कुशप्रासादप्लवस्थानीयं तत्रोपयोगः - प्रणिधानम् । सूत्रार्थोभय विषय आत्मनो
Jain Education International
For Personal & Private Use Only
३५
www.jainelibrary.org