________________
तत्वार्थाधिगमसूम्
[ अध्यायः ६
३६
व्यापारः । तत्परिणाभितेतियावत् । वाचनाप्रच्छनाऽनुप्रेक्षाऽऽनायधर्मोपदेशैरभ्यसनं तीर्थंकरनामकर्मण आस्रवः ॥
|----
भा० - संवेगश्च । यथाशक्तिस्त्यागस्तपश्च । सङ्घस्य साधूनां च समाधिवैयावृत्त्यकरणम् । अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः ।
1
टी० – संवेगश्चेति । अभीक्ष्णमिति सम्बध्यते । चशब्दः समुचितौ । संबेसंवेगस्य व्याख्या जनं संवेगो भीतिर्विचलनं वा संसारदुःखाज्जातिजरामरणस्वभावात् प्रियविप्रयोगादेव भयपरिणामः प्रतिक्षणं जगत्कायानित्याशुचित्वादिचिन्तनाथ सांसारिक सुखेष्वनभिलाषस्तत्प्रवण परिणामाद् विचलनं संवेगः । स चाभीक्ष्णं तादृशः परिणामः समुपजायमानस्तीर्थ करनामकर्मण आत्रत्रः । यथाशक्तिः - सामर्थ्य -सखोत्कर्षः, यथा स्वानुरूपा शक्तिर्यथाशक्तिः तत्पूर्वकस्त्यागः स्वानुरूपशक्त्यपेक्षः, स्वस्य न्यायार्जितस्यानुकम्पा निर्जितात्मानुग्रहालम्बनं भूतेभ्यो विशेषतस्तु विधिना यतिजनाय दानं - त्यागस्ती - र्थ करनामकर्मण आस्राः । तपश्चेति । यथाशक्तिरित्यभिसम्बध्यते । कर्मणस्तापनाच्छोषणात् तपः । तद् द्विधा, अन्तर्बहिर्भेदात् । पुनरेकैकं पोढा प्रायश्चित्तादिभेदादनशनादिभेदाच्च । तत् स्वसामर्थ्यापेक्षमनुष्ठीयमानं लोकपतिपूजाभिलापतृष्णा निरपेक्षेण चेतसा तीर्थ करनामकर्मण आस्रवः । सङ्घः –समूहः सम्यक्त्वज्ञान चरणानां तदाधारश्च साध्वादिश्चतुर्विधस्तस्य समाधानंस्वस्थता-निरुपद्रवत्वं समाधिस्तस्य करणं - जननम् - उत्पादनं तत् करोति येन ज्ञानदर्शनचरणानां वृद्धिर्भवति दिवस मनायाधाश्च साधुसंयती, देशय तिपुरुषयोषितः । ज्ञानदर्शनचारित्रलक्षणाभिः पौरुषेयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । तेषां च वैयावृत्त्यकरणं व्यावृत्तः- तत्कार्यानुष्ठानप्रवणस्तस्य व्यावृत्तस्य भावो वैयावृत्यं, साधूनां मुमुक्षूणां प्रासुकाहारोपधिशय्यास्तथा भेषजविश्रामणादिषु पूर्वत्र च व्यावृत्तस्य मनोवाक्कायैः शुद्धः परिणामो वैयावृच्यमुच्यते । चशब्दः समुच्चये । अथवा सङ्घभट्टारकस्य समाध्युत्पादनं भावः - चित्तपरिणामः परमार्थभावस्तस्य विशुद्धिः-निर्मलता । अथवा परमा चासौ भावविशुद्धिश्च तद्युक्ता भक्तिः स्वगुणदोष।कृष्ट पमस्तसुरासुरपुरुपेश्वरेष्वचिन्त्यसामर्थ्येषु सन्मागोंपदेशात् परमोपकारिषु प्रकृष्टमनःपरिणामशुद्धिपूर्विका भक्तिः सद्भूतातिशयोत्कीर्तनवन्दनसेवा पुष्प धूपगन्धाभ्यर्चनायतनप्रतिमाप्रतिष्ठापन स्त्रपनविधिरूपा तीर्थ करनामकर्मण आस्रवः । पञ्चविधाचारानुष्ठानाद् यतिज - नाचरणीयोपदेशाद्वाऽऽचार्या धर्मोपदेशदीक्षाव्रतोपदेशदिग्याचका वा भवन्त्याचार्याः अत्रैव श्रुतवाचनाचार्यत्वादुपाध्यायग्रहणम् । अङ्गानङ्गप्रकीर्ण काद्यनेकश्रुततदर्थोभययोगाद् बहुश्रुताः । प्रोच्यन्तेऽनेन जी गदयः पदार्था इति प्रवचनम् - आगमः - श्रुतज्ञानम् । चशब्दः सम्मु
1
१' शक्तितस्त्यागः ' इति क-पाठः ।
Jain Education International
२' निर्जरात्मा' इति ङ-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org