________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ६ टी-सरागसंयमादयश्चत्वारः कृतद्वन्द्वाः सूत्रेणोपात्तास्ते खल्वमी दैवस्यायुष आस्रवा भवन्ति, प्राक् तेन भाष्यकारेणोपन्यस्ता एव, न व्याख्याताः सद्वेद्यास्रवप्रस्तावे । अधुनातु स्वयमेव प्रपञ्चतोव्याचष्टे--संयमो विरतिव्रतमित्यादिना भाष्येण । सम्पूर्वाद्यमे वसाधनम् । संयमनं संयमः-सम्यग्ज्ञानपूर्विका विरतिः-प्राणातिपातादिपापस्थानेभ्यो निवृत्तिः। नियमो व्रतमित्यनान्तरम् । रागः-संज्वलनकपायस्तत्सहवर्ती सरागस्तस्य संयमः सरागसंयमः। इतिकरणो नियमनिवृत्त्यायनेकपर्यायोपलक्षणार्थः। अनर्थान्तरमित्यनेनैकार्थाभिधायित्वं सूचयति पयोयशब्दानाम् । कतिप्रकारं पुनस्तद् व्रतं किंलक्षणं चेति पृष्टे इदमाह-हिंसानृतेत्यादि। हिंसादयः पञ्च कृतद्वन्द्वाः पञ्चमीबहुवचनेन निर्दिष्टाः । पञ्चमी च विरामार्थानां प्रयोगेऽभिहिता । हिंसादिभ्यो विरमणं यत् तद् व्रतमित्येवं वक्ष्यते--व्याख्यास्यते सप्तमाध्यायादौ । इतिशब्द एवमित्यस्यार्थे । एवमेष सरागसंयमो दैवस्यायुष आस्रवो भवति ॥ ___भा०-संयमासंयमो देशविरतिरणुव्रतमित्यनान्तरम् । देशसर्वतोऽणुमहती इत्यपि वक्ष्यते ( अ० ७, सू० २) ॥ अकामनिर्जरा पराधीनतयाऽनुरोधाचाकुशलनिवृत्तिराहारादिनिरोधश्च ।। बालतपः । बालो मूढ इत्यनर्थान्तरम् । तस्य तपो बालतपः। तच्चाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि । तदेवं सरागसंयमसंयमासंयमादीनि च देवस्यायुष आस्रवा भवन्तीति ॥ २०॥
टी.-संयमासंयमः कुतश्चित केनचिदाकारेण निवृत्तिः कचित् प्रवृत्तिः, स्थूलपाणिविषयसंकल्पकृतप्राणव्यपरोपणनिवृत्तिमेव प्रतिजानीते गेही, न त्वारम्भजप्राणिप्राणव्यपरोपणविरमेऽपि संगिरते । तस्यैवंविधस्य संयमासंयमस्य पर्यायानाचष्टे-देशविरतिरणुव्रतमित्यनर्थान्तरम् । सम्पूर्ण प्राणातिपातायेकदेशो देशः स्थूलात् प्राणातिपाताद् विरमणे सति । एवमन्यत्रापि द्रष्टव्यम् । प्रपञ्चस्तु वक्ष्यते सप्तमाध्याये । अणु च तद् व्रतं च अणुव्रतम् । अणु-स्तोकं देशनिवृत्तिव्रतम् । इतिकरणेनागारिधर्मादिपर्यायाक्षेपः। एतच्च किमिहैव सकलं व्याख्यायते ? नेत्याह-देशसर्वत इत्यादि । देशतो विरातिरणुव्रत सर्वतो विरतिर्महाव्रतम् । एवं वक्ष्यतेभणिष्यते सप्तमेऽध्याये एव । संक्षेपतश्चैव दैवायुषः संयमासंयम आस्रवः । काम इच्छा प्रेक्षापूर्वकारिता तदर्थोपयोगभाजो या निर्जरा सा कामनिर्जरा। निर्जरा-कर्मपुद्गलपरिहाणिः, न कामनिर्जरा अकामनिर्जरा, अनभिलषतोऽचिन्तयत एव कर्म पुद्गलपरिशाटः । सा च पराधीनतयाऽनुरोधाचाकुशलनिवृत्तिराहारादिनिरोधश्च । अकुशलं धावनवल्गनप्लवनलङ्घनावरोहणकूर्दनस्फोटनादि, तत् तु बलवता गृहीतो निगडादिसंयतः कर्तुमसमर्थः, नच रौद्राध्यवसायी, न च प्राणातिपातादिभ्यो निवृत्या, नापि तेषु प्रवृत्तः, परवशत्वादनास्वादितचतुर्विधाहारः । आंदिशब्दाच्छिशिरकाले निरावरणदेशव्यवस्थापितोऽपहतप्रावरणः शीत
एमेतलाय.' इति क-पाठः । २ . विरमण' इति प्रतिभाति । 'मादिग्रहणात् इति पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org