________________
प्रस्तावना
२५
तत्त्वार्थसूत्रे स्वोपज्ञे भाष्ये च कतिपया उल्लेखाः सन्ति ये श्वेताम्बरीयागमादिषु ग्रन्थेषु दिगम्बरीयप्रधानभूतेषु वा न दृष्टिपथमवतरन्ति । ते चैमे
( १ ) तत्त्वार्थसूत्रे (१-४) तत्त्वसप्तकस्य निर्देश: । जैनसम्प्रदायद्वये तु पुण्यपापपूर्वकं सप्तकमिदमर्थात् नेवतत्त्वनिरूपणम् । एवं सति विरोधप्रसङ्ग इति चेन्न, 'शुभः पुण्यस्य' 'अशुभः पापस्य' इति सूत्रद्वयेन पुण्यपापयोस्तत्त्वरूपेण सूत्रकारैः स्वीकृतिः । किञ्च पुण्यपापयोः फलस्वातन्त्र्यमपि प्रदर्शितं सम्यक्त्व हास्य रतिपुंवेदशुभायुर्नामगोत्राणि पुण्यम्' इति सूत्रग्रथनेन ।
4
ननु प्रज्ञापना- स्थानाङ्गा - ऽनुयोगद्वारेषु जीवाजीवेति तत्त्वद्वयं निर्दिष्टम् । किमने - नास्त्रवादेरपलापो वक्तुं न शक्यते १ नैव, किन्तु सत्यमेतद् यदुत पुण्यपापयोः स्वतन्त्रतत्त्वरूपेणाङ्गीकृतिर्न कृता वाचकमुख्यैः, एकनिष्टदृष्ट्या प्ररूपितं तत्त्वसप्तकम् | ।
1
( २ ) अस्मिन् ग्रन्थे (१ - ३४ ) नयानां प्रथमं पञ्चविधता प्रदर्शिता । तदनन्तरं ( १-३५ ) पञ्चमस्य त्रैविध्यं प्रतिपादितम् । तत्र साम्प्रतमित्येकस्य नयस्य संज्ञा समस्ति साऽन्यत्र कुत्रापि न दृश्यते । एवं नयनिरूपणे वैशिष्टयं वर्तते । नैगमस्य सङ्ग्रह व्यवहारयोरन्तर्भावं कृत्वा श्रीसिद्धसेनदिवाकरैर्नयस्य सङ्ख्या पड् निर्धारिता । किञ्च विशेषावश्यकभाष्ये (गा. २२६४) नयपश्चकप्रपञ्चो विद्यते स औमास्वातिकपरम्पराप्रतिबिम्वरूप इत्यनुमीयते । अनुयोगद्वारे वसतिप्रदेशविषयकनयवर्णनावसरे शब्दसमभिरूढैवम्भूतानां गणनैकरूपेण कृता ।
१ एतदुल्लेखसमर्थनाय कतिपयान्यवतरणादीनि दीयन्ते यथाहि
( अ ) " " अभिगयजीवाजीवा उवलद्धपुण्णपावा आसव संवरनिज्जर किरिया हिगरणबंधप्पमोक्खकुसला " इत्यादि श्रावकज्ञानसमृद्धिवर्णनं भगवत्याम् ।
( आ ) उत्तराध्ययन सूत्रे मोक्षमार्गगतिसञ्ज्ञकेऽध्ययने निम्मलिखिता गाथा---
" जीवाजीवा य बंधो य, पुण्णं पावासवो तदा ।
संवरो निज्जरा मोक्खो, संते ए सहिया नव ॥ १४ ॥ "
(इ) वाचकवर्यप्रणीतायां प्रशमरतौ १९० तमपद्यादारभ्य २२१तमपर्यन्तानि पद्यानि । (ई) श्रीदेवेन्द्रसूरिविनिर्मितधर्मरत्नप्रकरणवृत्त्युद्धृता १०७ गाथाः ।
२ " अस्यां प्रज्ञापनायां षत्रिंशत् पदानि तत्र प्रज्ञापनाबहुवक्तव्यविशेषचरम परिणामसञ्ज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना । प्रयोगपदे क्रियापदे चाश्रवस्य कायवाङ्मनः कर्म योग आश्रव' इति वचनात् । कर्मप्रकृतिपदे बन्धस्य प्ररूपणा । समुद्रातपदे केवलिसमुद्धात प्ररूपणायां संवरनिर्जरामोक्षाणां त्रयाणाम् शेषेषु तु स्थानादिषु पदेषु क्वचित् कस्यचित् " इति प्रज्ञापनावृत्तौ श्रीमलयगिरिसूरयः ।
Jain Education International
"
३ इदमनुसृत्य कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभिस्त्रिषष्टिशलाकापुरुषचरिते श्रीदेवानन्दसूरिभिः समयसारे, न्यायतीर्थन्यायविशारदोपाध्यायश्री मङ्गल विजय जैनतत्त्वप्रदीपे च तत्त्वसप्तकविरचनाऽकारीति प्रतिभाति।
४ सज्ञाऽभिनवत्वे समीक्ष्यतां पञ्चमे सूत्रे निक्षेपस्थाने न्यासपदप्रयोगः ।
४
For Personal & Private Use Only
www.jainelibrary.org