________________
२४
प्रस्तावना
भाष्यं स्वोपज्ञं समस्ति न वेति प्रश्न उत्तरतो विचारयिष्यते । अत्र तावत् तद समीक्ष्यते । एकत्रिंशत् सम्बन्धकारिका दशमाध्यायस्य सप्तमसूत्रस्य विवरणात्मिका द्वात्रिंशत् लोकाः प्रशस्तिश्च भाष्यस्याङ्गानीति ज्ञायते । यद्येषां सूत्ररूपेण गुम्फितेन मूलग्रन्थेन सहाङ्गाङ्गि भावरूपः पक्षः कक्षीक्रियते तर्हि भाष्ये तद्विवरणं किं नास्तीति प्रश्नस्य सन्तोषकारि समाधानं दुःशकम् | श्वेताम्बरटीकाकारादिभिर्भाष्यस्य स्वोपज्ञत्वं स्वीकृतं, दिगम्बरैस्तु अनादृतम् । एवं सत्यपि मुद्रिततत्त्वार्थ जवार्तिकप्रान्ते श्री अमृत चन्द्रकृते तत्त्वार्थसारे च पूर्वोक्ता द्वात्रिंशत् श्लोका अङ्कादिरूपस्वल्पपरिवर्तन पूर्वका दृष्टिपथमायन्ति । अष्टमः श्लोक औमास्वातिक इति मत्वा श्रीहरिभद्रसूरिवरैः शास्त्रवातासमुच्चयसञ्ज्ञायां स्वकीयकृतौ ६९३तमपद्यरूपेणोदधारि । सम्बन्धकारिकाणामेकोनत्रिंशत्तमा तथैवोद्धृता श्रीमुनिचन्द्रसूरिभिर्धर्मविन्दुवृत्तौ । क्वचित् आह उक्तं चेत्यादि निर्देशपुरस्सरं तदुल्लेखरहितानि वा यानि कतिपयानि पद्यानि भाष्ये दृश्यन्ते तान्यपि भाषाशैलीसमानत्वाद् भाष्यकारस्यैव सम्भपेयुः ।
शैली-साम्प्रदायिकाभिनिवेशा-ऽर्थविकासरूपैस्त्रिभिर्दृष्टिबिन्दुभिः परीक्ष्यमाणयोः भाष्यसर्वार्थसिद्धयर्भाष्यस्य प्राचीनता पोस्फुरीति । अतस्तुष्यतु दुर्जन इति न्यायेन यदि भाष्यस्य स्वोपज्ञता न स्वीक्रियते तर्ह्यपि उपलब्धव्याख्या निकाये भाष्यस्य सर्वोपरि प्राचीनतेति कथने न मनागपि सन्देहो निष्पक्षप्रतिभाशालिनां सम्भवति ।
याकिनी महत्तरानुश्री हरि भद्रसूरिशेखर-श्रीसिद्धसेनगणिवरप्रभृतिभिः समस्तैः श्वेताम्बर मुनिवर्यैर्भाष्यस्य स्वोपज्ञत्वं स्पष्टतयाऽङ्गीकृतमिति निर्विवादम् । प्रो. यकोबी - प्रो. विन्टर्नित्स - पं. सुखलालाद्याधुनिक विद्वद्वरैरपि तथैव कृतम् । अनेन किं न फलति यदुतेदं मतं प्रामाणिकम् ? । भवतु, द्वे युक्ती अपि निर्दिश्येते । तावत् कतिपयासु सम्बन्धकारिकासु भाष्येऽपि कुत्रचिदुपदेक्ष्यामः वक्ष्यामि वक्ष्याम इति प्रतिज्ञाद्वारा ये विषयाः सूचितास्तेषां प्ररूपणं सूत्रेषु दृश्यते, न तु भाष्ये । अतोऽनुमीयते सूत्रभाष्ययोरेककर्तृत्वमर्थाद् भाष्यस्य स्त्रोपज्ञता वरीवर्ति । अपरश्च मूलकारव्याख्याकारयोर्यत्र भिन्नव्यक्तित्वं वर्तते तत्र प्रायः सूत्रपाठानां विसंवादिस्वरूपं तदर्थविषयकं विकल्पजालं सन्दिग्धत्वं सूत्रपाठभेदश्चेति दरीदृश्यते । निदर्शनार्थ समीक्ष्यतां सर्वार्थसिद्धिप्रमुख दिगम्बरटीका साहित्यं श्रीबादरायणप्रणीतस्य ब्रह्मसूत्रस्य शारीरकसूत्रेत्यपराह्नस्य व्याख्याव्रजं वा । ईदृक्परिस्थितेरभावो भाष्ये समर्थयति तत्स्वोपज्ञत्वमिति मे मतिः । सूत्रभाष्ययोर्वैशिष्टयम्
१ सन्तुल्यतामयं निम्नलिखितया श्री औपपातिकसूत्रगतया गाथया -
"बीआण पुणरवि अग्गिदड्ढाणं अंकुरुप्पत्तीण भवइ ।
"
एवमेव सिद्धाणं कम्मबीए दड्ढे पुनरपि जन्मुपत्ती न भवइ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org