________________
२३
अपरश्च गन्धहस्तिमहाभाष्यकर्तारः श्रीसमन्तभद्राचार्या दिगम्बरीया एवेति सुनिश्वयो न सञ्जायेत निम्नलिखित पदवीक्षणोनोत्पद्यमानशङ्काया निरसनं विना । " अथो गुरुथन्द्रकुलेन्दुदेव - कुलादिवासोदित निर्ममत्वः । समन्तभद्रः १७ श्रुतदिष्टशुद्ध- तपस्क्रियः पूर्वगतश्रुतोऽभूत् ॥ वृद्धस्ततोऽभूत् किल देवसूरि : १८, शरच्छते विक्रमतः सपादेः । "
सहस्रावधानिश्रीमुनिसुन्दरसूरिकृताया गुर्वावल्या अवतरणमिदम् । अनेन श्रीसमन्तभद्रसमयो यो ध्वन्यते स एव दिगम्बरसम्प्रदाये श्री समन्तभद्र समयरूपेण सुप्रतिष्ठितः । अतः समुपतिष्ठति शङ्का यदुत किमिमे श्वेताम्बरीया दिगम्बरीया वा । एवं परिस्थित्यां सत्यां दिगम्बरीयश्री समन्तभद्राचार्यैर्गन्धहस्तिनाम्नी टीका प्रणीतेति निर्णयात्मकं कथनं दुःशकं प्रतिभाति । वाचकविचार:
वाचकशब्दस्यार्थत्रितयं समस्ति – (१) पूर्ववित्त्वं, (२) उपाध्यायत्वं, (३) वचकवंशीयत्वं च । श्रीउमास्वातीनुद्दिश्य उपाध्यायत्वं न सङ्गच्छते, औचार्यरूपेण तेषां सुप्रसिद्धस्वात् । एते वाचकवंशे सञ्जाता अतस्तेषां वाचकत्वं श्रीधनगिरि - सिंहगिरिवत्, न तु विद्ययेत्यपि पक्षो नादरणीयः तत्समये पूर्वानुच्छेदात्, अनधिकारिषु पदवीप्रदानासम्भवात्, स्वस्य वाचकरूपेण स्वयं ग्रन्थकारकृतनिर्देशाद, घोषनन्दिक्षमणानामेकादशाङ्गवित्त्वरूपेणैव न तु वाचकपद्द्द्वारोल्लेखात्, उच्चैर्नागरस्य वाचकवंशस्य शाखारूपेण कथनस्यानुपलब्धेश्व | पण्डितसुखलालैर्वाचकवंशीयत्वेनैव तेषां वाचकत्वमिति कल्पना कृताऽस्ति, किन्तु साऽसमीचीना भाष्यगत प्रशस्तेः समुचितानवधारणात् तदुत्पत्तेः, अतः प्राथमिक एव अर्थोऽत्र स्वीकर्तव्यः । किश्व न कस्यापि श्वेताम्बर मुनिवरस्यास्य विषये विसंवादो दृश्यते ।
भाष्यं तत्कर्तृत्वं च
प्रस्तावना
"
१ 'समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः" इति जिनसहस्रनामगतपद्यार्थसूचितः समन्तभद्रो नात्र विवक्षितः, तस्य 'जिन' शब्दस्य पर्यायत्वात् । महर्षिबुद्धस्यापि पर्यायोऽयम्, परन्तु सोऽप्यत्रानपेक्षणीयः ।
२ इमे श्वेताम्बराचार्याः ।
३ इयं तु अद्ययावत् नैवोपलब्धा ।
४ एतदुल्लेखः समस्ति निम्नलिखितगाथायाम्
""
“ वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीणं ॥ ५ प्रेक्ष्यतां सभाष्यसटीकस्य तत्त्वार्थाधिगमसूत्रस्य प्रथमो विभागः (पृ. १, ३, १० ) ।
६ विलोक्यतामाङ्ग्लभाषानिबद्ध उपोद्घातः ( ५. ५ ) ।
सूत्रभाष्यगत विशिष्टताऽपि व्यनक्ति तेषां पूर्ववित्त्वम् ।
७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org