________________
प्रस्तावना
(८) "अत एव च भेदः प्रदेशानामवय-1 (८) "यद्यप्यवयवप्रदेशयोर्गन्धहस्त्यावानां च, ये न जातुचिद् वस्तुव्यतिरेकेणोप- दिषु भेदोऽस्ति ।" लभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परि- -स्याहामञ्जयाँ ६३तमे पृष्ठे कलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवाः इत्यत.।" -तत्त्वार्थ(अ. ५, सू.६) वृत्तौ (पृ. ३२८)।
अथ दिगम्बरसाहित्ये गन्धहस्तिपरत्वे कीदृश उल्लेखाः सन्तीति विचार्यते । शकीयदशैकादशशताब्दीयेषु दिगम्बरीयशिलालेखेषु एकस्य सुभटस्य गन्धहस्तीत्युपाधिरवलोक्यते, परन्तु न चायमुल्लेखोऽत्रोपयुक्तो विशेषतः । दिगम्बरपरम्परानुसारेण आप्तमीमांसादिप्रणयिभिः श्रीसमन्तभद्राचार्यैस्तत्त्वार्थसूत्रस्य मोक्षशास्त्रेत्यपराहस्य या टीका निरमायि सा गन्धहस्तिरूपेण प्रसिद्धिं गता, परन्तु प्रमाणोपलब्धि विना कथं स्वीक्रियतेऽभिप्रायोऽयम् । अपरश्च इयं टीका श्रीसमन्तभद्राचार्याणां कृतिरित्यङ्गीकरणेऽपि सर्वार्थसिद्धौ तत्त्वार्थराजवार्तिके वा तस्या नामधेयं किमप्यवतरणं न दृष्टिपथमवतरति, अतः किं फलति । यदि साऽभविष्यत् तर्हि सा नाशं गता, न केवलं श्रीअकलङ्कदेवसमयात् प्राक, किन्तु श्रीदेवनन्दीतिमूलनामधेयानां षेष्ठशताब्दीयपूज्यपादसमयादपि । परन्तु न चेयं सम्भावना विश्वासभाजनप्राया, यतः श्रीवीरसेनाचार्यैः ७३८तमे शकसंवत्सरे प्रणीतायां धवलाख्यटीकायां वर्तते निम्नलिखितमवतरणमिति न्यायालङ्कारपण्डितबंशीधराः
"उक्तं च पुनर्गन्धहस्तिभाष्ये उपपदो जन्म प्रयोजनं येषां त इमे औपपादिकाः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि अनुत्तरे स्वौपपादिकाः ऋषिदासधन्य-सुनक्षत्र कार्तिकेय-नन्द-शालिभद्रा-ऽभय-वारिपेण-चिलातपुत्रा इति ।” अनेन गन्धहस्तिभाष्यस्य विद्यमानता श्रीअकलङ्कदेवसत्तासमयरूपवैक्रमीयनवमशताब्दीपर्यन्तेत्यनुमीयते ।
किञ्च 'गन्धहस्ति'सञ्ज्ञात्मिका टीका तत्त्वार्थसूत्रं विहाय अन्यस्य कस्यचिद् दिगम्बरीयसैद्धान्तिकग्रन्थस्यापि न सम्भवतीति कथने निम्नलिखितादुल्लेखादन्यत् किमपि प्राचीनं प्रमाणं वर्तते इति न मे श्रुतिपथं दृष्टिगोचरतां वा गतम्
"भगवद्भिमास्वातिपादैराचार्यवरासूत्रितस्य तत्त्वार्थाधिगमस्य मोक्षशास्त्रस्य गन्धहस्त्याख्यं महाभाष्यमुपनिबध्नन्तः स्याद्वादविद्याग्रगुरवः श्रीस्वामिसमन्तभद्राचार्याः ।"
१ श्रीहेमचन्द्रसूरिवरनिर्मिताया स्याद्वादकारिकेत्यपराह्वया अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया वृत्तिरियं श्रीमल्लिषेणसूरिप्रणीता। २ प्रेक्ष्यतां दिगम्बरसाहित्यगवेषकश्रीयुतजुगलकिशोररचितः स्वामिसमन्तभद्रनामको निवन्धः (पू. १४१-१४३)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org