________________
२४८
तस्वार्थाधिगमसूत्रम्
[ अध्यायः ९
लग्भोऽयम् । बन्धो हि नः प्रयोगवशात् । न च तस्य हन्यमानस्य तत्र हिंसाप्रयोगोऽस्ति । औदेशिकाद्यारम्भे चावश्यंभावी जीववधः शाक्यानाम् । यथोक्तम्
" प्रतिसेवासंवासः, प्रतिश्रुतिश्चानुमोदना हीष्टाः । औद्देशिकादिनिर्वर्तने च नियमेन जीववधः ॥ १ ॥ -आया भिक्षूनुद्दिश्य हते, दोषो न तु मांसभक्षणेऽभीष्टः । शाक्यानां सर्वानुद्दिश्यारब्धमदन् भिक्षुः ॥ २ ॥" - आर्या
कथमदुष्टः ? यस्मात् सङ्घोऽपि हि न भिक्षुव्यतिरेकेणान्योऽस्ति । यच्च समुद्दिश्य कृतं तद् भिक्षूद्देशेनैव कृतं तदव्यतिरेकात् । मायासूनवीयश्चोदयति
" कथमेषणीयमपि भिक्षुरदन् हिंसां न सोऽनुमन्येत । परितुष्यति यल्लब्ध्वा, ग्रहणं नास्त्यसति दोषे ॥ १ ॥ " - आर्या
जैनेन्द्रास्त्वाहुः
" इत्येष विप्रलापो, न स तुष्यति येन जीवघाताय । सुखमुत्सर्पति मेयं, धर्मोऽनेनेति तुष्यति तु ॥ २ ॥ - आर्या ननु देहेन समर्थेनानेन सुखं तपोऽधितिष्ठामि ।
इति तुष्यतोऽस्ति न यते - र्मातापितृमैथुनानुमतिः ॥ ३ ॥ " - आर्या
अथ कदाचिदाशङ्कत
Jain Education International
“ औद्देशिकादिभोज्यपि, तथैव न तु तुष्यतीत्यपि न युक्तम् । आत्मार्थं हि हितानां, न यतिर्दयते स जीवानाम् ॥ ४ ॥ - आर्या हत्वाऽऽत्मार्थं सत्त्वं, समक्षमुपहृतमुदीक्ष्य तन्मांसम् । न हि गृह्णाति दयालु - गृह्णन् ननु निर्दयो भवति ॥ ५ ॥ - आर्या परमुद्दिश्यारब्ध-मपि तद् गृह्णन् कथं न विकृपः स्यात् । इत्येष विप्रलाप - स्तद्धघारब्धं स्वभावेन || ६ || आर्या गृहिणा नारम्भः, शक्यो वारयितुं सर्व एव जीवानाम् । स हि धर्मः संसरत शक्यस्त्वौदेशिकारम्भः ॥ ७ ॥" आर्या
निवारयितुं यश्वोक्तमाशयत्रयविशुद्धमदतो मांसं न दोष इति ( पृ० २४७, पं० १९ ) तत्रोक्तं रसपरित्यागस्तपसि तवमिति ।। १९ ॥
1
प्रकृतमुच्यते । किञ्च प्रकृतं तपस्तत्र बाह्यमुक्तम् । अधुनाऽऽभ्यन्तरमुच्यते । तच्चातिशमेन कर्मनिर्दहनक्षमम् ।
For Personal & Private Use Only
www.jainelibrary.org