SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सूत्रे २०-२१ ] अभ्यन्तराणि षट्र तपांसि अभ्यन्तरतपोलक्षणम् भा० - सूत्रक्रमप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । प्रायश्चित्तं १ विनयो २ वैयावृत्त्यं ३ स्वाध्यायो ४ व्युत्सर्गे ५ ध्यानं ६ इत्येतत् षड्विधं अभ्यन्तरं तपः ।। २० ।। स्वोपज्ञभाष्य–टीकालङ्कृतम् सूत्रम् - प्रायश्चित्त - विनय - वैयावृत्य-स्वाध्यायव्युत्सर्ग-ध्यानान्युत्तरम् ॥ ९-२० ॥ अभ्यन्तरतपो भेदनिर्देशः टी० - अन्तर्व्यापार भूयस्त्वा - दन्यतीर्थविशेषतः । प्रायवित्तादीनां ध्यानान्तानां द्वन्द्वः । मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारः चित्तं मलि - - नयतीति तत्प्रकाशनाय तच्छुद्धचैव प्रायश्चित्तं विहितं पापच्छेदका - प्रायश्चित्तादीनां रित्वात् प्रायश्चित्तमिति । पृषोदरादित्वाच्छन्द संस्कारः । प्रायो बाहुव्युत्पत्तिः येन चित्तविशुद्धिहेतुत्वात् प्रायश्चित्तम् । विनीयते येनाष्टप्रकारं कर्मा - पनीयते स विनयः । श्रुतोपदेशेन व्यावृत्तो व्यग्रस्तद्भावो वैयावृत्यम् । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽऽध्यायः स्वाध्यायः । विविधस्यान्नपानवस्त्र पात्रादेः संसक्तस्यातिरिक्तस्य च परित्याग उत्सर्गो व्युत्सर्गः । वाक्कायचित्तानां आगमविधानेन निरोधो ध्यानम् । उत्तरमिति पूर्वसूत्रोपन्यस्त बाह्यतपोऽपेक्षया सूत्रानुपूर्वीप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । एतदपि षट्कारमभ्यन्तरं तप इति तदेतदभ्यन्तरं तपः ॥ २० ॥ बाह्यद्रव्यानपेक्षत्वा - दान्तरं तप उच्यते ॥ १ ॥ - अनु० Jain Education International २४९ सूत्रम् - नव चतुर्दश पञ्च विभेदं यथाक्रमं प्राग् ध्यानात् ॥ ९-२१ ॥ भा०—तदभ्यन्तरं तपः नव चतुर्दश- पश्च द्विभेदं भवति यथाक्रमं प्राग् ध्यानात् । इत उत्तरं वक्ष्यामः ॥ २१ ॥ तद्यथा टी० – नवादीनां भेदशब्दोपसंहितानां भेदशब्देन बहुब्रीहिः, द्विपदवृत्तौ समासे समानाधिकरणे बहुलमुत्तरपदलोपविज्ञानमुष्ट्रमुख न्यायेन । नव च चत्वारथ दश च पञ्च च द्वौ च भेदाच ते नवचतुर्दशपञ्चद्विभेदाः । एते भेदा यस्येत्येकस्य भेदशब्दस्य लोपः । यथाक्रममिति यथासङ्ख्यम् । प्राग् ध्यानात् प्रायश्चित्तादारभ्य यावद् व्युत्सर्ग इति । इतःअस्मात् सूत्रादुत्तरं यद् वक्ष्यामः प्रायश्चित्तादित्थं भेदमवसेयमिति ॥ २१ ॥ १' उत्सर्गः - परित्यागः ' इति प्रतिभाति । ३२ For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy