________________
२५०
तत्त्वार्थाधिगममूत्रम्
[अध्यायः ९ तद्यथेत्यनेन सूत्रं सम्बध्नाति । अभ्यन्तरतपोभेदस्याद्यस्य निर्दिष्टविकल्पसङ्ख्यस्य तद्भेदानामाख्याविशेषप्रेक्लयर्थमिदमुच्यतेऽत्र
सूत्रम्-आलोचन-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्गप्रायश्चित्तस्य नव भेदाः तप-श्छेद-परिहारो-पेस्थापनानि ॥ ९-२२ ॥
भा०–प्रायश्चित्तं नवभेदम् । तद्यथा-आलोचनं, प्रतिक्रमणं, आलोचनप्रतिक्रमणे, विवेकः, व्युत्सर्गः, तपः, छेदः, परिहारः, उपस्थापनमिति ॥
टी-आलोचनादय उपस्थापनान्ताः कृतद्वन्द्वा नपुंसकलिङ्गेन निर्दिष्टाः । प्रायचित्तं नवभेदमित्यादि विवरणम् । औपसङ्ख्यानिकः सुट् । तद्यथेत्यादिना नवापि भेदान् विवेकेन दर्शयति । तदुभयमित्येतद् व्याचष्टे-आलोचन-प्रतिक्रमणे इति । तदित्यनेनालोचनं प्रतिक्रमणं च सङ्ग्रहीतम् । एष च तृतीयो भेदः । आलोचनादीन् भाष्यकार एव क्रमेण विवृणोति । अनया मयोदया दोषरहितः कायोकायोव्युत्पन्नवाल जल्पितवत् सकलमतीचारमाचष्टे-प्रत्यक्षीकरोति प्रकाशयत्यालोचनाहोय गुरवे । तत्र कश्चिदतीचारः प्रकाशमात्रेणैवापोह्यते, यथाश्रुतोपदिष्टव्यापारानुष्ठायी मोक्षाय प्रयतमानोऽवश्यकरणीयेषु प्रत्युपेक्षणप्रमार्जनवैयावृत्यस्वाध्यायतपश्चरणाहाराघुच्चारविहारावनिचैत्ययतिवन्दनादिषु कार्येषु अत्यन्तोपयुक्तो निःसपत्नः प्रवतेते व्यस्तस्थूलातिचारः सूक्ष्मास्रवप्रमादक्रियाविशुद्धयर्थमालोचनमात्रादेव विशुध्यति । तस्यालोचनस्यैकार्थाः पर्यायाः
भा०-आलोचनं विवरणं प्रकाशनमाख्यान प्रादुष्करणपर्यायाः मित्यनान्तरम् ॥
टी.-आलोचनं मर्यादनं मर्यादया गुरोनिवेदनम् । पिण्डिताख्यानस्य विवरण द्रव्यादिभेदेन । प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणम् । आख्यानं प्रथम मृदुना चेतसा । प्रादुष्करणं निन्दा-गर्दाद्वारेण । इति-एवमनन्तरम्-एकार्थत्वं परमार्थत इति ॥
प्रतिक्रमणमित्यादि स्वयमेव विवृणोति भाष्यकार:
भा०-प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तं प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च ॥
टी-अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणम्-अपसरणं प्रतिक्रमणम् । एतदाह-मिथ्या-अलीकमुत्सूत्रमुन्मार्गः । दुष्टं कृतं दुष्कृतं चरणविराधनमित्यर्थः । तेन सम्प्र
भालोचनस्य
१ 'प्रकृत्यर्थ ' इति ड-च-पाटः। २ 'स्थानानि ' इति च-पाठः। ३ स्थानमिति' इति ग-पाठः । 'मिष्पन्नः' इति च-पाठः। ५ 'प्रकटनं' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org