________________
पर्यायाः
सूत्र २२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२५१ युक्तः प्रत्यवमर्शः-पश्चात्तापः उत्सूत्रमिदं मया दुष्टं कृतमिति स्वच्छन्दतो न सूत्रानुसारेणेति समुपजातविप्रतिसारः प्रतीपमपसर्पति प्रत्याख्याति-न पुनरेवं करिष्यामीति प्रत्याख्यानं प्रतिक्रमणं, कायोत्सर्गकरणं चेति । कायस्य-शरीरस्य उत्सर्गः-उज्झन भावतः कायोत्सर्गः। यस्मात् सुविशुद्धभावस्यापि ममायं कायो बलानिपतितः कायेष्विति न मे भावदोष इति।
तदेतदेवंविधं प्रतिक्रमणं प्रायश्चित्तमहिंसकस्य गुप्तिसमितिप्रमादिनो गुरूनासादयतो विनयहानिमाचरत इच्छाकारादिसामाचारीमप्रयुञ्जानस्य लघुकमृषादत्तमूर्छावतो विधिशून्यकासजृम्भितक्षुतवातमोक्षणकन्दर्पहासविकथादिमतो विहितं तदुभयप्रायश्चित्तनिरूपणायाह--
___ भा०-एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचन विशोविवेकस्य
धनं प्रत्युपेक्षणमित्यनर्थान्तरम् । स एष संसक्तानपानोपधि
शय्यादिषु भवति ॥ टी०-एतदुभयमालोचनप्रतिक्रमणे इति । आलोचनं व्याख्यातं प्रतिक्रमणं च । एतदेवोभयं प्रायश्चित्तं प्रागालोचनं पश्चाद् गुरुसन्दिष्टस्य प्रतिक्रमणम् । एतचोभयं प्रायश्चित्तं सम्भ्रमभयातुरापत्सहसाऽनाभोगानात्मवशगतस्य दुष्टचिन्तितभाषणचेष्टावतश्च विहितम् । सम्प्रति विवेकप्रायश्चित्तावसरः-विवेको विवेचनमित्यादि । विवेकः-त्यागपरिणामः । विवेचनं-मावविशुद्धिः । विशोधन-निरवयवता पुनः प्रत्युपेक्षणं प्रस्फोटनमीक्षणमेव वा प्रयत्नेन स्वल्पोऽप्यवयवो नास्तीति । विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति । विवेकप्रायश्चित्तस्य विषयं दर्शयति-स एष विवेकः संसक्तानपानोपकरणादिषु भवतीति । उपयुक्तेन गीतार्थेन गृहीतं प्राक पश्चादवगतमशुद्धं विवेकाहेम् । अन्नपानग्रहणात् पिण्डपरिग्रहः। उपधिरौधिकौपग्रहिकलक्षणः। शय्या-प्रतिश्रयः । आदिग्रहणाद् डगलकभस्ममल्ल(क)भेषजादिपरिग्रह इत्येवं विवेक एव प्रायश्चित्तमिति ॥ सम्प्रति व्युत्सर्गप्रायश्चित्तमुच्यते
भा०-व्युत्सर्गः प्रतिष्ठापनमित्यनर्थान्तरम् । एषोऽप्यव्युत्सर्गस्य पर्यायः नेषणीयानोपकरणादिषु अशङ्कनीयविवेकेषु च भवति ॥
टी०--व्युत्सर्ग इत्यादि। विशिष्ट उत्सर्गो व्युत्सर्गः-प्रणिधानपूर्वको निरोधः । कायवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टे-प्रतिष्ठापनमित्यनान्तरम् । प्रतिष्ठापनशब्दः परित्यागार्थः । कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपि कायोत्सर्गः प्रायश्चित्तं भवति । क? अनेषणीयादिषु-त्यक्तेषु । तत्रानेषणीयमुद्गमाद्यविशुद्धमन्नपानमुफ्करणं वा प्रतिष्ठाप्य
१'कायव्यापारस्य' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org