SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ कायोत्सर्गः कार्यः । आदिग्रहणाद गमनागमनविहारश्रुतसावद्यस्वप्नदर्शननौसन्तरणोचारप्रस्रवणावरणपरिग्रहः । अशकनीयविवेकेषु चेति । धनसंसक्तसक्तुदधितकादिषु न प्राणिनो विवेक्तुं शक्यन्त इत्यशङ्कनीयविवेकेषु च सक्तुप्रभृतिषु प्रतिष्ठापितेषु कायोत्सर्गत एव तपः प्रायश्चित्तं भवतीति । तपःप्रायश्चित्तविवक्षया त्वाहभा०–तपो बाह्यमनशनादि प्रकीर्ण चानेकविधं चन्द्रप्रतिमादि । टी-तपो याह्यमनशनादि । प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि तु बाह्यम् । बाह्याभ्यन्तरता च केनचिदंशेनेत्यविरोधः । तत्रानशनग्रहणाचतुर्थभक्तपरिग्रहः, श्रुतानुसारात् पञ्चमव्यवहारानुसाराच्च । तच्च मध्यमग्रहणं मध्यमग्रहणाचायभेदपरिग्रहोऽपि । तत्राद्या: पञ्चक दशक-विंशति-पञ्चविंशतिभेदा लघवो गुरवश्च । मासोऽपि च लघुर्गुरुः । चत्वारश्च मासा लघवो गुरवश्व। षट् च मासा लघुगुरवः मध्यं च । भिन्नमासो लघुगुरुभेदः। सर्वमेतत् तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽतिचारविशुद्धयर्थम् । सम्प्रति पञ्चमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरन्ति । तच्च निर्विकृत्याद्यष्टमभक्तान्तम् । तच्चानेकातिचारविषयम् । यथा उद्देशकाध्ययनश्रुतस्कन्धाङ्गेषु प्रमादिनः कालविनेयातिक्रमादिषु क्रमेण निर्विकृत्याद्याचाम्लान्तमनागाढयोगे, आगाढे तु पुरस्तादर्धेचतुर्थभक्तान्तम् । एवमादि प्रकीर्णकं चानेकविधं चन्द्रप्रतिमादीत्युक्तलक्षणं बाह्ये तपसि प्राक प्रपश्चनेति ॥ __ छेदप्रायश्चित्ताभिधित्सयोवाच भा०-छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् । स प्रव्रज्यादिवसछेदस्य पर्यायाः पक्ष-मास-संवत्सराणामन्यतमेषां भवति ॥ टी-छेदोऽपवर्तनमपहार इत्यभिन्नार्थाः पर्यायाः । स च छेदः पर्यायस्य महाव्रतारोपणकालादारभ्य गण्यते । एतदेवाह-प्रव्रज्येत्यादि । प्रव्रज्यादिवस-पक्ष-माससंवत्सराणामन्यतमेषां भवति । प्रवज्यादिवसो यत्र महाव्रतारोपणं कृतं तदादिः पर्यायः । तत्र पञ्चकादिच्छेदपर्यायस्य यथा यस्य तावद् दश वर्षाण्यारोपितमहाव्रतस्यापराधानुरूपः कदाचित् पञ्चकच्छेदः कदाचिच्च दशक इत्यादि यावत् षण्मासपरिमाणच्छेदो लघुगुरुवा, एवंविधेन छेदेन छिद्यमानः प्रव्रज्यादिवसमप्यपहरतीति । अस्य च विषयस्तपसा गर्वितः तपसोऽसमर्थस्तपश्चाश्रद्दधानः तपसा च यो न दाम्यत्यतिपरिणामकश्चत्यादि ॥ सम्प्रति मूलप्रायश्चित्तमभिधीयते ... भा०-परिहारो मासिकादिः । उपस्थानं पुनर्दीक्षणं पुनउपस्थापनस्य पयोयाः श्चरण पुनर्वतारोपणमित्यनान्तरम् ।। १'श्रुतानेषु' इति ङ-पाठः। २ “विनयता' इति ङ-पाठः। ३ दिवसादिपक्ष.' इति ग-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy