________________
सूत्रं १९ ) स्वोपज्ञभाष्य-टीकालङ्कृतम्
२४१ ऽवश्यम्भाविनी, एकत्वपरिणतेश्च विना संसार्यात्मनः सुखदुःखाभाव एव स्याद्, एवमात्मनः कायद्वारेण क्लेशोपपत्तिः "सम्यग्योगनिग्रहो गुप्तिः" (अ०९, सू०४) इत्येतस्मात् सम्यग्ग्रहणमनुवर्तते, तच्च कायक्लेशविशेषणम् । आगमानुसारिणी सम्यक्क्लेशोत्पत्तिः निर्जरायै न्याय्या। स चागमेऽनेकप्रकारः कायक्लेश उपन्यस्तः। तद्यथेत्यादिना तदनेकविधत्वं दर्शयतिस्थानवीरासनेत्यादि । स्थानग्रहणार्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः । तस्य चाभिग्रहवि. शेषात् स्वशक्त्यपेक्षातः कालनियमचन्द्रावतंसकनृपतेरिवावगन्तव्यः । वीरासनं तु जानुप्रमाणासनसन्निविष्टस्याधस्तात् समाकृष्यते तदासनं, निवेष्टी च तदवस्थ एवास्ते यदा तदा कायक्लेशाख्यं तपो भवति । तत्राप्यभिग्रह विशेषादेवं स्वसामथ्योपेक्षातः कालनियमः। उत्कटुकासनं तु प्रसिद्धमेव विनाऽऽसनेन भूमौ वा प्राप्तस्फिग्द्वयस्य भवति । एकपार्श्वशायित्वं स्वधोमुख उत्तानमुखस्तियग्व्यवस्थितो वा कालनियमभेदेन यदवतिष्ठते तत् तपः काय. क्लेशाख्यम् । तथा दण्डायतशायित्वं नाम तपः ऋजुकृतशरीरः प्रसारितजङ्घाद्वयश्चलनरहितस्तिष्ठति यदा तदा तद् भवति । तथा आतापनमपि ऊर्ध्वबाहोरूर्वस्थितस्य निविष्टस्य निपण्णस्य वा प्रज्वलितगभस्तिजालस्य सवितुरभिमुखस्थितस्य भवति । अप्रावरणाभिग्रहः शिशिरसमये प्रावरणाग्रहणम्। आदिग्रहणात् हेमन्तेऽपि रजनीष्वातापनं सन्तापनमात्मनः, शीतार्तिसदनमित्यर्थः। तथा सलगण्डशायित्वमप्रतिकर्मशरीरत्वमस्त्रानकं केशोल्लुश्चनमित्येवमेतानि स्थानवीरासनादीनि ॥
भा०-सम्यक् प्रयुक्तानि वायं तपः ।
टी०-सम्यक प्रयुक्तानि आगमचोदितानि-अनुगता(नि) बाह्यं तपः । यथाशक्ति विधिनाऽनुष्ठेयम् , अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धर्मावश्यकविधानात पीडयेदविध्युपयुक्तविषवत् । किं पुनरितो बाह्यात् तपसः फलमवाप्यत इत्याह
भा०-अस्मात् षविधादपि बाह्यात् तपसः बाह्यतपसः अनेक
सङ्गत्याग-शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा विध फलम्
भवन्ति ॥ १९॥
टी०--अस्मात् षइविधादपीति । सङ्गत्यागः शरीरलाघवं इन्द्रियविजयः संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते । तत्र निःसङ्गत्वं बाह्याभ्यन्तरोपधिष्वन
१ 'क्षात् ' इति उ-पाठः। २ एतद्वर्णनार्थं विलोक्यता योगशास्त्रस्य स्वोपझं विवरण (पृ. १७७)। ३.निश्चेष्टा' इति उ-पाठः। ४ देतत्' इति कु-पाठः। ५. पेक्षात् ' इति -पाठः। 'नियमस्थस्य इति ग-पाठः। ७.चोदनानि नुगता बाह्यं' इति च-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org