________________
२४० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ टी--विविक्तशय्यासनता नामेति । शय्याग्रहणेन प्रतिश्रय-फलक-संस्तारकग्रहणम् । आसनग्रहणेन पीठसिकादिविविक्तं गर्हितजनसम्पातरहितं अचलाशुपिरादि च । विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता । नामशब्दो वाक्यालङ्कारार्थः अभिधानवचनो वा । अस्यैव विवरणमेकान्तेऽनाबाध इत्यादि, पर्यायकथनेन व्याख्यानम् । विविक्तम्-एकान्तम् अनाबाधम् असंसक्तं स्त्रीपशुपण्डकवर्जितमिति पर्यायाः । अथवा एकान्ते इति । 'अम गत्यादिषु' ( पा० धा०४६६ ) "सर्वे गत्यर्था ज्ञानार्थाः" इति वचनादमनम्-अन्तः श्रुतज्ञानं तद्व्यापार एवैको यत्र वाचना-प्रच्छनादिभिरुत्सर्पति तदेकान्तम् । अनाबाधे इति । आबाधः-शरीरोपघातः, स.न विद्यते यत्र तदनाबाधम् । असंसक्ते इति सूक्ष्मस्थूलजन्तुरहिते। स्त्रीपशुपण्डकवर्जित इति । स्त्रियो-मानुष्यः पशवो-गो-महिष्य-जाविकाद्याः पण्डका नपुंसकानि। वस्तुतश्चारित्रोपघात एवैष सर्वः॥
तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि दर्शयति
भा०-शून्यागार-देवकुल-सभा-पर्वतगुहादीनामन्यतमस्मिन् समाध्यर्थ संलीनता॥
टी०--शून्यागारेत्यादिना। शून्यागारं शून्यगृहमदोषम् । देवकुलं दुर्गाद्यायतनादि । सभा यत्र प्राङ्मनुष्याः समवायमकक्षत । सम्प्रति तु न तत्र समवयन्ति । पर्वतगुहा-पर्वतविवरं गिरिनगरादाविव लयनानि । आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्ति मण्डपकादि परिगृह्यते। एषां यथोक्तानां अन्यतमस्थाने व्यवस्थानम् । किमर्थमिति चेत् समाध्यर्थम् । समाधिज्ञानदर्शन-चारित्र-तपो-वीर्यात्मकं पञ्चधा । समाधानं समाधिः ज्ञानादीनामपरिहाणिवृद्धिश्च । इत्थमियं संलीनता तपोविशेषः । इन्द्रियाणि संयम्य सस्वान्तानि क्रोधादिकषायकदम्बकं च विविक्तं शय्यासनमासेवमानस्य संलीनता भवति । प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन कषायसंलीनता । क्रोधस्य तावदुदयनिरोधः, प्राप्तोदयस्य च वैफल्यापादनम्, एवं शेषाणामपि । तथा अकुशलमनोनिरोधः कुशलचित्तोदीरणं वा । एवं वागपि वाच्या। कायव्यापारस्तु समुत्पन्नप्रयोजनस्य यत्नवतः संलीनताव्यपदेशमश्नुते । विना तु प्रयोजनेन निश्चलासनमेव श्रेयः। विविक्तचों तु भाष्यकृतवोक्ता ।
भा०-कायक्लेशोऽनेकविधः। तद्यथा-स्थानवीरासनोत्कटुकासनैकपादण्डायतशयनातापनाप्रावृतादीनि ।
री०-कायक्लेशोऽनेकविध इत्यादि। कायः-शरीरं तस्य क्लेशो-बाधनम् । कायात्ममोरभेदः संसायेवस्थायामन्योन्यानुगतत्वात् क्षीरोदकादेरिव, अतः कायबाधायामात्मनो बाधा
१ एव एतत्सर्वं ' इति च-पाठः । २ निरूपयति' इति ङ-च-पाठः। ३ ' मकृषत ' इति च-पाठः । ४'दाहरणं वा' इति उ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org