________________
२३९
सूत्रं १९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् चानुमोदनीयः। स्वयमेव कुर्वन् मुनिना साधुभ्यो दास्यामीति, एवं कृतकारितानुमतिभिः . . परिहारः सवेथा मुमुक्षोरुपदिष्टः शासनप्राणायिना सर्वज्ञेनेति । अथ यत
• कृतकारितानुमतिपरिशुद्धमोदनादिवत् तत् किमिति न वर्ण्यते ? । तदपि गाग्रंपरिहारार्थ यतयः परिहरन्त्येव द्रव्यादिचतुष्टयापेक्षाः ।। ननु चैवमोदनादयोऽपि गायेपरिहारिणा त्याज्याः १, नैतदेवम्, मांसरसो हि सर्वरसातिशायी वृष्यतमश्च किल। तत्र चावश्यंभावि गाय॑म् । न चैवमोदनादयः ॥ ननु च क्षीर-दधि-धृतादयोऽपि रसा वृष्या एवेति, उच्यते-तेऽपि हि मुमुक्षोः सर्वदा नैवानुज्ञाता भगवद्भिः । यदाऽप्यनुज्ञातास्तदाऽपि मात्रया तप्तायोभाजनप्रक्षिप्तघृतादिबिन्दुक्षयवन्न चरणबाधायै प्रत्यलाः । परेणाप्यवश्यमिदमभ्युपेयं, न नियोगतोऽभ्यवहर्तव्यं सर्वमेव, त्रिकोटिपरिशुद्धश्चाहिगजाश्वनरमांसाभ्यवहारप्रसङ्गात् । तस्मान सर्वमेव त्रिकोटिपरिशुद्धमभ्यवहार्यम् । मद्यपाने चातिप्रसङ्गः । अथ मद्यपानं प्रकृतिसावधमिति परिहियते । एतदप्यसत् प्राणातिपातसम्बन्धात् रसातिशयगाोच्च । मांसमपि प्रकृतिसावद्यमेव । अपि च-मद्यमुपभुञ्जते युक्तितो येन न तेषु किश्चिदवद्यमुपलभ्यते ।
तस्मान्मांसरसपरित्यागः श्रेयानिति । मधु त्रिप्रकारम्-माक्षिकं कौत्तिकं मधुनस्लैविध्यं भ्रामरं च । एतदपि प्राण्युपपातनिष्पन्नमेवेति परिहार्य द्रव्यादिचतुष्टनवनीतस्य च चातुर्विध्यम् ।
व यापेक्षयेति । गो-ऽमहिष्य-जा-विकानां नवनीतं चतुर्धा । स चापि रसो
- वृष्य इति परिहार्यः। आदिग्रहणात् क्षीर-दधि-गुड-घृत-तैलाख्याः पञ्चावरुध्यन्ते :विकृतयः। तत्र क्षीरविकृतिः पञ्चप्रकारा गो-महिष्य-ऽजा-विको ष्ट्रीणाम् । दधिविकृतिरपि करभीवर्जानां चतुःप्रकारैव । गुडविकृतिरिक्षुविकारः। फाणितादि प्रसिद्ध, खण्ड
. शर्करावर्जः । दधिविकृतिरिव घृतादिविकृतिरपि चतुर्विधैव । तैल विकक्षीरादिविकृतीनां विविधता ।
- तिरपि चतुर्विधा । तिला-ऽतसी-सिद्धार्थक-कुसुम्भकाख्यानि तैलानि ।
दशमी घृताधवगाहनिष्पन्ना। अवगाह्यकविकृतिरपूपादिका । साऽपि आदिग्रहणादागृहीतैव । एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः । एता हि वृष्यत्वाद् वाजीकरणप्रसिद्धेश्व, न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वात् । एवं च विकृतयोऽन्वर्थसञ्ज्ञां लभन्ते । अतो मुमुक्षुणा ललनाऽङ्गप्रत्यङ्गविलोकनवत् प्रत्याख्येयाः । इत्थं च रसपरित्यागलक्षणं विशिष्टं तपः । विरसरूक्षाद्यभिग्रहश्चेत्यनेन विनापि विकृतिभिः शक्यं प्राणसंरक्षण यतिनेति दर्शयन्ति । विगतरसं विरसम्, विकृतिभिरसंसृष्टं विरसं वा । तस्माद रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकम् । आदिग्रहणादन्तप्रान्तपरिग्रहः ॥
भा-विविक्तशय्यासनता नाम एकान्तेऽनावाधेऽसंसक्ते स्त्रीपशुपण्डक वर्जिते ।
१'प्रणायिमा ' इति ङ-पाठः। २' षण्डकविवर्जिते' इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org