________________
श्रेष्ठिदेवचन्द्र-लालभाइ-जैनपुस्तकोद्धारग्रन्थाङ्केवाचकवर्यश्रीउमास्वातिसंहब्धस्य स्वोपज्ञभाष्ययुतस्य तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेनगणिकृतायां व्याख्याया
॥द्वितीयो विभागः॥
-PER
अथ षष्ठोऽध्यायः ६
भा०-अत्राह-उक्ता जीवाजीवाः । अथास्रवः क इत्याअध्याय-सम्बन्धः ।
बन्या स्वप्रसिद्धयर्थमिदं प्रेक्रम्यते ॥
री०-अत्राह-उक्ता जीवाजीवा इति सम्बन्धः । अत्र-एतस्मिन् जीवाजीवादिपदार्थसप्तके प्रकृते जीवाश्चाजीवाश्च द्रव्यतः पर्यायतश्च स्थित्युत्पत्तिप्रलयस्वभावा ब्याख्याताः। अथ तयोरनन्तरोद्दिष्ट आस्रवः क इति, प्रश्नपरिसमाप्तौ इतिशब्दः । क आस्रव इत्येव मन्यते प्रष्टा । वस्तुतश्चेतनाचेतनलक्षणजीवाजीवपदार्थद्वयसद्भाव एव । आस्रवस्तु यदि जीवोऽथापि जीवपर्यायः सर्वथा जीव एवास्तु । अथाजीवस्तत्पर्यायो वा तथा सति अजीव एव । नापि चेतनाचेतनव्यतिरेकि पदार्थान्तरमस्तीति, अतः स्वरूपं पृच्छतिकोऽयमास्रव इति । आचार्यस्तुभयविशिष्टमास्रवं चेतसि निधायाहात्र-आस्रवप्रसिद्धयर्थमिदं प्रक्रियते ॥ अत्र जीवादिपदार्थसप्तके जीवाजीवावमिधाय लक्षणविधानाभ्यो प्रेधानाधिकारिका(१)भ्यामास्रवप्रसाधनार्थमिदं प्रस्तूयते । अथवा अत्रेत्यध्यायाभिसम्बन्धः । अत्र-अध्याये आस्रवो विचार्यते--स्वरूपेणाख्यायत इत्ययमभिप्रायः सूरेः । आस्रवःक्रियाविशेषः । स चात्मकायाद्याश्रयो न जीवोन जीवपर्यायः केवलः, न वाऽजीवो नापि तत्य
यिः, उभयाश्रयत्वात् । न च पदार्थान्तरं जीवाजीवाभ्यामतो भेदेनास्रवस्वरूपमिदं लक्षणविधानाभ्यां व्याख्यातुं प्रक्रियते
सूत्रम्-कायवामनकर्म योगः ॥६-१॥ टी.-ननु चायमसङ्गतार्थः सम्बन्धोऽन्यस्मिन् प्रस्तुतेऽन्यस्य व्याख्येयत्वेनोपन्या
साद,आस्रवसम्बन्धमभिधाय योगःसूत्रेणोपन्यस्त इति । उच्यते. आस्रवः योगशम्दे हेतुः प्रतिज्ञातः, स एव च व्याख्यायते, किन्तु तब्याख्यानपरिकरार्थ योगो.
पन्यासस्तन्मूलत्वादास्रवस्येति । अथवा पश्चमाध्यायपर्यन्ते सूत्रेऽमिहितं-योगस्तु परस्ताद वक्ष्यते । स चायं योगः कायादिभेदः, तत्प्रणाडिकयैवास्रवस्वरूपनिख
१ प्रक्रियते' इति घन्टी. पाठः । २ 'प्राधान्याधि' इति ग-पाठः । ३ 'परिपाकार्थ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org