________________
सूत्र ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२०३ भा०-सप्तसप्तमिकायाः प्रतिमाश्चतस्रः भद्रोत्तरमाचाम्लवर्धमानं सर्वतोभद्रमित्येवमादि ॥
टी०-सप्तसप्तमिका अष्टाष्टमिका नवनवमिका दशदशमिका चेति । तत्र सप्तपतमिका प्रथमायामहोरात्राणामेकोनपश्चाशद् दिवसा इत्यर्थः । अष्टाष्टकाः। अष्टाष्टमिकायामहोरात्राणां चतुःषष्टिर्दिनानीति । तथा नवनवमिकायामेकाशीतिरहोरात्राणि । देशदशमिकायां दिवसशतम् । सर्वत्र प्रथमा अहोरात्रसङ्ख्यासु एकैकभिक्षाशित्वम् । सर्वत्रेति चतसृष्वपि प्रतिमासु प्रथमे सप्तमके प्रथमेऽष्टके प्रथमे नवके प्रथमे च दशके प्रतिदिन मे कैकभिक्षाशित्वं द्वितीये सप्तकेऽष्ट के नवके दशके च भिक्षाद्वयाशित्वम्, एवं शेषेवपि सप्तकादिष्वेकैकभिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्तभिक्षा अष्टमेऽष्टौ भिक्षा नवमे नव मिक्षा दशमे दशभिक्षाशित्वमिति ॥ _तथाऽन्यत् तपः सर्वतोभद्रमिति द्विविधं तत्-क्षुलुकसर्वतोभद्रं महासर्वतोभद्रं चेति । तत्र प्रथमस्य प्रस्तारविधिर्भण्यते-पञ्च गृहाणि कृत्वा तिर्यगृवं च । ततो रचना तपसः कार्यो। चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपङ्क्तौ, द्वितीयस्यां च दशमद्वादशचतुर्थषष्ठाष्टमानि, तृतीयायां षष्ठाष्टमदशमद्वादशचतुर्थानि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्थ्या, पञ्चम्यामष्टमदशमद्वादशचतुर्थषष्ठानि । पारणादिवसाः पञ्चविंशतिः। कालो मासत्रयं दिनानि दश । एष एव चतुर्गुणो वर्षमेकं मासो दश दिनानीति ॥
१'सर्वतोभद्रं भद्रोत्तर.' इति ग-पाठः । २ सप्तसप्तमिकायाः स्वरूपं अन्तकृद्दशासु यथा
“पढमे सत्तए एकेकं भोयणस्स दत्तिं पडिगाहेइ, एकेकं पाणयस्स, एवं जाव सत्तमे सत्त दत्तीउ भोयणस्स, सत्त पाणयस्स..."
[प्रथमे सप्तके एकैको भोजनस्य दत्तिं प्रतिगृह्णाति, एकैकां पानकस्य, एवं यावत् सप्तमे सप्त दत्तयो भोजनस्य, सप्त पानकस्य....]
व्यवहारभाष्ये स्वेवम्“ अहवा एकेक्कियं दत्ति, जा सत्तेकेकस्स सत्तए ।
आएसो अत्थि एसो वि............॥" [अथवा एकैकां दत्तिं यावत् सप्त एकैकस्मिन् सप्तके ।
आदेशोऽस्ति एषोऽपि............] ३ 'दशमिकाया' इति च-पाठः ।
४ क्षुल्लकसर्वतोभद्रस्य प्रथमो विकल्पः
فهم ع اسم
३/४/
५/१
२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org