________________
३०४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० तिष्ठति सर्वार्थान् सोऽत्यन्तं पश्यंस्तथा विजानंश्च । नास्ति स्वभावविगमो न तु सर्वस्यापि भावस्य ॥४॥ घातीनि तु कर्माणि स्वभावजातान् गुणान् विवृण्वन्ति । तदभावात् स्वाभाविकगुणभावो भवति न तु सिद्धः ॥५॥ यदि च स्वभावविगमो नेष्टः कस्मात् स निष्क्रियो भवति । इति वा चोद्यं प्रोक्तं यत्स्पन्दस्तत्स्वभावत्वम् ॥ ६ ॥ कार्याभावाच्च पुनने स्पन्दस्तस्य विद्यतेऽत्यन्तम् । प्रायोगिकोऽप्ययुक्तः स्पन्दः कर्मप्रमुक्तस्य ॥ ७॥ विषयैश्च तस्य नार्थः क्षुत्-तुट्र-स्वेदादि-मोहबाधानाम् । रागादीनां च तथाऽभावादुपयोगहेतूनाम् ॥ ८॥ एतेन व्याख्यातो भाषण-चङ्क्रमण-चिन्तनादीनाम् ।
चेष्टानां सिद्धस्याभावो विशरीरवाङ्मनसः ॥९॥" एवं तेषां मुक्तात्मनां " पूर्वप्रयोगादिभियुक्तिस्तद्गतिः” इति वचनात् तेषां गतिः सिद्धेति ॥६॥
त एते सिद्धान्तज्ञेन सिद्धाः क्षेत्रादिभिर्द्वादशमिरनुयोगद्वारैरनुगन्तव्याः “प्रमाणनयैरधिगमः" (अ०१, सू० ६) इति वचनादित्याह
सूत्रम्-क्षेत्र-काल-गति-लिङ्ग-तीर्थ-चारित्र प्रत्येकसिद्धस्य १२ बुद्धबोधित-ज्ञाना-ऽवगाहना-ऽन्तर-सङ्ख्या-ऽल्पबहुत्वतः अनुयोगद्वाराणि
साध्याः ॥ १०-७॥ टी-अथवा अमी सिद्धाः परिनिवृत्तदोषाः कार्मणशरीरौपशमिकादिभावनिरुपाख्याः किं पर्यायान्तरेण व्यपदेष्टुमशक्या एव आहोस्विदतीतव्यवहारा एव हि निर्धार्या इति १॥ उच्यते -शक्यन्त एव व्यपदेष्टुं, यस्मात् ते खलु व्यवजिहीर्षद्भिः प्रत्युत्पन्नभूतार्थानुग्रहतन्त्रनयद्वितयसामर्थ्यविशेषवद्भिः श्रुतज्ञानाहितदाद_ज्ञानदर्शनचरणाप्रच्युतमार्गस्तत्त्वप्रतिपत्त्यर्थमात्महितमादधानः क्षेत्रादिद्वारैरनुगमनीया इत्याह-क्षेत्रकाल इत्यादि। क्षेत्रादीनां अल्पबहुत्वान्तानां इन्द्रः । द्वन्द्वसमासाभिनिवृत्ताच प्रातिपदिकात् तृतीयार्थे तसिः । सिद्धिविशेषस्यानेकाश्रयत्वात साध्यवचनम् । क्षेत्रादीनि च द्वादशापि द्वाराणि प्रतिपदं दर्शयति भाष्येण
भा०-क्षेत्रं, कालः, गतिः, लिङ्ग, तीर्थ, चारित्रं, प्रत्येकबुद्धयोधितः, ज्ञानं, अवगाहना, अन्तरं, सङ्ख्या, अल्पबहुत्वमित्येतानि बादशानुयोगद्वाराणि सिद्धस्य भवन्ति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org