SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ स्वरूपम् २०६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ तथा पानकस्य, दायिका च एलकस्यान्तः पादमेक विन्यस्यापरं बहिर्काएकमासिक्या: " वस्थाप्य तां दत्तिं यदि ददाति ततः कल्पते । तथा आदिमध्यावसान " गोचरत्रयहीडी पेडा अर्धपेडा गोमूत्रिका पतङ्गवीथिः संबुक्कवृत्ता गत्वा प्रत्यागता चेति षड्विधगोचरभूमिचारी । एवंविधतपश्चारीति यत्र ज्ञायते तत्रैकरात्रं कल्पते वासः। यत्र न ज्ञायते तत्रैकरात्रं वाऽहोरात्रद्वयं वा वस्तु कल्पते, न परतः। याचनप्रच्छनाऽनुज्ञापनप्रश्नव्याकरणभाषी आगमनविकटगृहकवृक्षमूलोपाश्रयत्रयपरिभोगकारी पृथिवीकाष्ठयथास्तीर्णसंस्तारकत्रयशायी कश्चित् तदध्यासिते प्रतिश्रये अनि लगयेत् ततो दाहभयाने निष्कामे कण्टकादिकं पादलममक्षितो वा कणुकांदि नो निर्हरेत् । जलस्थलादिषु यत्रास्तमेति तपनस्ततः स्थानादेकमपि पदं न प्रयाति । विगतजीवेनापि पानकेन हस्तपादादिप्रक्षालनं न करोति । सन्मुखमापततो दुष्टाश्वहस्त्यादीत्या पदमप्येकं पश्चान्नापसप॑त् । एवमादिभिर्नियमविशेषैर्विचित्रा एषा मासिकी प्रतिमेति। द्विमासप्रतिमामारूढस्यान्धसो द्वे दत्ती पानकस्य च, शेषों पूर्ववत् । एवमुत्तरास्वपि यावन्तो मासास्तावत्य एव दत्तयोऽपि यावत् सप्तमासिक्यो सप्त दचयः । शेषं प्रथमप्रतिमावद्विधानम् । प्रथमसप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्त मपानकं ग्रामादेर्बहिरुत्तानपार्श्वशायिनो निषण्णस्य वा कल्पते स्थातुं सप्तरात्रिक्या: दिव्यमानुषतैयग्योनानुपसर्गान् सम्यक्सहमानस्येत्यन्यत् पूर्ववत् । द्वितीयां सप्तरात्रिकी प्रतिमामारूढस्य तदेव चतुर्थभक्तमपानकं च स्थान त्वस्य दण्डायतं लगडशायिता उत्कुटुकासनं वा। तृतीयामपि सप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्तमपानकं च, स्थानं पुनरस्य गोदोहिका वीरासनं आम्रकुब्जिता चेति । अहोरात्रिकी प्रतिपन्नस्य प्रतिमा षष्ठभक्तमपानकं बहियामादेश्चतुरङ्गुलान्तरौ चरणौ विधाय लम्बितबाहो कायोत्सर्गावस्थानमेकं, शेषं पूर्ववत् । एकरात्रिकी प्रतिमा कुर्वतोऽष्टमभक्तमपानकं ग्रामादेबहिरीषत् प्राग्भारगतेन कायेनैकपुद्गलनिरुद्धदृष्टिरनिमिषनयनो यथाप्रणिहितगात्रः सुगुप्तेन्द्रिय ग्रामः कायोत्सगोवस्थायी दिव्यमानुषतेरश्चानुपसगान् सम्यक तितिक्षते यस्तस्य भवतीति सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति । नेदं पारमर्षप्रवचनानुसारि भाष्यं, किं तर्हि ? . प्रमत्तगीतमेतत् । वाचको हि पूर्व वित् कथमेवंविधमाषेविसंवादि निर्वभाज्यपाठपरामशः ध्नीयात ? सूत्रानवबोधादुपजातान्तिना केनापि रचितमेतद् वचनकम्दोच्चा सत्तराईदिया तइया सत्तराईदिया। द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकीति सूत्रनिर्भेदः । द्वे सप्तरात्रे त्रीणीति सप्तरात्राणीति । सूत्रनिर्भेदं कृत्वा पठितमझेन सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति ॥ 'प्रातिकामेत्' इति ग-पाठः। २'कादिना' इति ङ-पाठः। ३ 'दण्डयतः' इति ड-पाठः। ४ 'उस्कुटकस्थान' इति हु-पाठः। ५ 'हिकापुनीरा' इति ङ-पाठः । ६ 'निरूढदृष्टि' इति च-पाठः। ७ 'मर्षवचना' इति -पाठः। ८'ब्रूयात्' इति उ-पाठः। ९ 'द्विसप्त' इति ग-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy