SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सूत्रं ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भेद्रोत्तररचना । द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि, अष्टादशविंशतिद्वादशचतुर्दशषोडशभक्तानि चतुर्दशपोडशाष्टादशविंशति द्वादशभक्तानि विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि षोडशाष्टादश विंशतिद्वादश चतुर्दशभक्तानि दिनानि पञ्चत्रिंशद्धद्रोत्तरतपसि । तथाऽपरं तपः आचाम्लवर्धमानम् । अलवणारनालौदनलक्षणमा चाम्लं तद् वर्धमार्ग यत्र तपसि तदाचाम्लवर्धमानं तस्य प्ररूपणा - प्राक् तात्रदाचाम्लं ततश्चतुर्थभक्तं पुनर्दे आचाम्ले पुनश्चतुर्थभक्तं पुनस्त्रीण्याचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्चतुर्थभक्तं पश्चाचाम्लानि पुनश्वतुर्थभक्तं एवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तोवद् वर्धयितव्यमाचाम्लं यावदाचाम्लशतं पूर्ण पर्यन्ते च चतुर्थभक्तं कालपरिमाणमस्य चतुर्दश वर्षाणि मासत्रयं विंशतिर्दिवसाचेति । सर्वतोभद्रमित्येवमादीत्यादिग्रहणादनेकप्रकारं तपोऽस्ति प्रकीर्णकमिति ज्ञापयतीति पारमर्ष एव प्रसिद्धं प्रवचने ॥ अथवाऽऽदिशब्दसङ्गृहीता द्वादश भिक्षुप्रतिमास्तदर्शनार्थमाह भा० - तथा द्वादश भिक्षुप्रतिमाः - मासिक्यायाः आ सप्तमासिक्यः सप्त, संप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्रः, अहोरात्रिकी, एकरात्रि की चेति ॥ ७ ॥ टी० - तथा द्वादश भिक्षुप्रतिमा मासिक्याद्या इति । मासिकी आदिर्यासां ता मासिक्याद्याः । द्वादशेति इयत्ता निरूपणाय संख्या । भिक्षुरुद्गमोत्पादनैषणादिशुद्धभिक्षाशी । प्रतिमा प्रतिज्ञा । मासः प्रयोजनमस्या इति मासिकी । मासेन परिसमाप्तिमायातीत्यर्थः । आ सप्तमासिक्याः सप्तेति विभागं दर्शयति, द्वित्रिचतुःपञ्चषट्सप्त मासाख्याः । एवमेताः सप्त तथाऽपरास्तिस्रः प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सतरात्रिकी चेति । एवमेता दश । अपरे द्वे अहोरात्रिकी एकरात्रिकी चेति । एवं द्वादश । तत्र मासिकीं प्रतिमामारूढः साधुर्भोजनस्यैकां देत्तिमाते । १ भद्रोत्तरम् ५ ६ ७ ८ ९ ८ ९५ | ६ | ७ ६ ७ ८ ९ ५ ९ ५ ६ ७ ८ 9 ८ ९ ५ ६ Jain Education International २०५ INTERNET PRESTONE प्रवचनसारोद्धारे तु भद्रोत्तरं यथा ५ ६ ७ ८ ९ ७ ८ ९ ५ ६ ९ ५ ६ ७ ८ ६ ७ ८/९/५ ८ ९ ५ ६ ७ २ 'सदेव' इति ङ-पाठः । ३ ' सप्तरात्रिक्याः तिस्रः ' इति घ-पाठः । ४ ' रात्रिकी रात्रिकी ' इति ध-पाठः । ५ ' दत्तिकामा (?) ' इति ङ-पाठः । For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy