________________
३०६
तत्वार्थाधिगमसूत्रम्
[अध्यायः १० पूर्वभावप्रज्ञापनीयस्य जन्मप्रतिपन्नजातः कर्मभूमिषु पञ्चसु भरतेषु पञ्चस्वैरावतेषु पञ्चसु विदेहेषु सिध्यति । संहरणं प्रति मानुषक्षेत्रे सिध्यति । संहरणं द्विधा-स्वकृतं परकृतं
च । तत्र स्वकृतं चारणानां विद्याधराणां चेच्छातो विशिष्टस्थानाश्रयणम् । संहरणस्य द्वैविध्यम्
परकृतं चारण-विद्याधर-देवैः प्रत्यनीकतयाऽनुकम्पया चोत्क्षिप्यान्यत्र क्षेपणं संहरणम् । तच्च न सर्वस्यैव साधोः संहरणं समस्तीत्येतद् विवेकेन दर्शयति
-तत्र प्रमत्तसंयताः संयतासंयताश्च-देशविरताः संहियन्ते । मतान्तरम् केचिदाहरविरतसम्यग्दृष्टिरपीति । अमी पुनर्न जातुचित् संहियन्ते
भा०-श्रमण्यपगतवेदः परिहारविशुद्धिसंयतः पुलाश्रमण्यादिसप्तानां से
रणभावना कोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति न संन्हियन्ते
टी-श्रमणी संयतीत्यर्थः। अपगतवेदः परिहारविशुद्धिसंयत उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दशपूर्वधरः आहारकशरीरीति । एते सप्तापि न संहियन्ते । आगमोऽपि
“समणीमवगयवेदं परिहारपुलागमप्पमत्तं च । .
चोद्दसपुग्विं आहारगं च णवि कोवि संहरइ ॥"' भा०-ऋजुसूत्रनयः शब्दाद्यश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः शेषा नया उभयभावं प्रज्ञापयन्तीति ।
टी-ऋजुसूत्रनयः शब्दादयश्च त्रयः-शब्द-सममिरुलै-वम्भूताःप्रत्युत्पन्नभावप्रज्ञापनीयाः-वर्तमानार्थग्राहिणः। शेषा-नैगमादयो नया उभयभावं प्रज्ञापयन्त्यतीतं वर्तमानं चेति कालत्रयाभ्युपगमादिति ॥
भा०-कालः। अत्रापि नयद्वयम् । कस्मिन् काले सिध्यतीति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च । जन्मतोऽवसर्पिण्युत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च जातः सिध्यति। एवं तावद्विशेषतः । विशेषतोऽप्यवसर्पिण्यां सुषमदुःषमायां सख्येयेषु वर्षेषु शेषेषु जातः सिध्यति, दुःषमासुषमायां सर्वस्यां सिध्यति, दुःषमसुषमायां जातो दुःषमायां सिध्यति, न तु दुःषमायां जातः सिध्यति, अन्यत्र नैव सिध्यति । संहरणं प्रति सर्वेकालेषु अवसपिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति॥
१ 'इति' इति न्यूनो ग-पाठः। २ छाया
श्रमणीमपगतवेदं परिहारं पुलाकमप्रमत्तं च ।
चतुर्दशपूर्विणमाहारकं च नापि कोऽपि संहरति ।। ३ प्रवचनसारोद्धारे १४१९तमीगाथारूपेणोद्धृतेयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org