SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ३०९ भा० - चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोअचारित्री 'सिध्यतीति । ' टी० - चारित्रमिति । वर्तमानग्राहिणो नयस्य नोचारित्री नोअचारित्री सिध्यति । नोशब्दः सर्वप्रतिषेधे । नास्त्य॒स्य चारित्रं सामायिकादि नोअचारित्री द्वौ प्रतिषेधौ । तत्र चारित्र्येव गम्यते किं तर्हि अचारित्री अंविरत इत्यपि वक्तुं न शक्यते । तस्मान्न विरतो नाविरत इति ॥ भा० - पूर्वभावप्रज्ञापनीयो द्विविधः - अनन्तरपश्चात्कृतिकश्च परम्परपयत्कृतिकञ्च । अनन्तर पश्चात्कृतिकस्य यथाख्यातसंयतः सिध्यति । परम्परपश्चास्कृतिकस्य व्यञ्जितेऽव्यञ्जिते च । अव्यञ्जिते त्रिचारित्रपश्चात्कृतः चतुश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिक सूक्ष्म सम्पराय यथाख्यातपश्चास्कृतसिद्धाः छेदोपस्थाप्य-सूक्ष्म सम्पराय यथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्य - सूक्ष्म सम्पराय - यथाख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्य परिहारविशुद्धि-सूक्ष्म सम्पराय - यथाख्यातपश्चात्कृत सिद्धाः सामायिक च्छेदोपस्थाप्यपरिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः ॥ टी० - पूर्व भावप्रज्ञापनीयो द्विधा । अनन्तरस्य पश्चात्कृतिः-पश्चात्करणं यत्रासावनन्तर पश्चात्कृतिको नयः । अस्य तु यथाख्यातचारित्री सिध्यति । इतरस्य व्यञ्जिते- व्यक्तिमापादिते स्पष्टीकृते विशेषिते अव्यञ्जिते सामान्यमात्रे अविशेषिते वक्तव्यं तत्राव्यञ्जिते त्रिचतुःपञ्चचारित्रपश्चात्कृतः सिध्यति । कानि त्रीणि चारित्राणि चत्वारि पञ्च वा ? । अतो व्यज्यते-सामायिकं, सूक्ष्मसम्परायं यथाख्यातं च; अथवा छेदोपस्थाप्यं सूक्ष्मसम्परायं यथाख्यातमिति त्रिचारित्रस्य विकल्पद्वयम् । चतुश्चारित्रस्यापि विकल्पद्वयमेव सुज्ञानम् । पश्चचारित्रस्यैक एव विकल्पः ॥ भा० – प्रत्येकबुद्धबोधितः । अस्य व्याख्या - विकल्पश्चतुर्विधः । तद्यथाअस्ति स्वयम्बुद्धः । स द्विविधः - अर्हश्च तीर्थकर ः प्रत्येकबुद्धप्रत्येक बुद्धबोधितस्य व्याख्याया- सिद्धश्च । बुद्धबोधितैसिद्धः त्रिचतुर्थो विकल्पः । परबोधकसिद्धाः धातुर्विध्यम् स्वेष्टका रिसिद्धाः ॥ डी० -- प्रत्येकबुद्धबोधित इति चतुर्धा व्याख्यायते - तीर्थकरः प्रत्येकबुद्धः परबोधकः स्वेष्टकारी चेति । तद्यथेत्यादिना दर्शयति । अस्ति स्वयम्बुद्धसिद्धः स्वयमेव बुद्ध:, १' सिध्यति इति घ-पाठः । ३ 'अचरित' इति च-ज-पाठः । Jain Education International " २ ' पूर्वभावप्रज्ञापनीयस्य नोचारित्री सिध्यतीति' इत्यधिको ग-पाठः । ' साम्परायिक' इति घ-पाठः । ५ ' सिद्धाः' इति घ-पाठः । ४ For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy