________________
३१०
तत्वार्थाधिगमसूत्रम्
[ अध्यायः १०
नान्येन बोधितः । स द्विविधः - तीर्थकरोऽर्हतां तीर्थकर नामकर्मोदयभाक् । तथा परः प्रत्येकबुद्धसिद्धः प्रत्येकमेकमात्मानं प्रति केनचिन्निमित्तेन सञ्जातजातिस्मरणाद् वल्कलचीरिप्रभृतयः करकरण्डवादयश्च प्रत्येकबुद्धाः । बुद्धबोधितोऽपि द्विविधः । बुद्धेन ज्ञातसिद्धान्तेन विदितसंसारस्वभावेन बोधितो बुद्धबोधितः । परबोधकः परस्मायुपदेशं ददाति । अपरः पुनः स्वस्मै इष्टं-हितं स्वेष्टं तत्करणशीलः स्वेष्टकारी, न परस्मै युगपदुपदिशति किञ्चिदिति चतुर्थो विकल्पः । एते चत्वारोऽपि विकल्पा विकल्पद्वयमनुप्रविशन्ति । तत्र स्वयम्बुद्धसिद्धे तीर्थकरः प्रत्येकबुद्धच बुद्धबोधितसिद्धे परबोधकः स्वेष्टकारी चेति ॥
चतुर्विकल्पानां द्वयेऽन्तर्भावः
भा० - ज्ञानम् । अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवली सिध्यति । पूर्वभावप्रज्ञापनीयो द्विविधः - अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकच अव्यञ्जिते च व्यञ्जिते च । अव्यञ्जिते द्वाभ्यां ज्ञानाभ्यां सिध्यति । त्रिभिश्चतुर्भिरिति । व्यञ्जिते द्वाभ्यां मति श्रुताभ्याम्, त्रिभिर्मति श्रुताऽवधिभिः मति श्रुत-मनः पर्यायैर्वा, चतुभिर्मति श्रुताऽवधि-मनः पर्यायैरिति ॥
टी० - ज्ञानमिति । अत्रापि तावेव द्वौ नयौ । तत्र वर्तमानकालग्राहिणः केवलज्ञानवान् सिध्यति । इतरोऽपि द्विविधः । तत्रानन्तरं कदाचित् किश्चित् ज्ञानं भवति परम्परपश्चास्कृतिकस्य । अव्यञ्जिते व्यञ्जिते चेति चत्वारो विकल्पाः । तत्राव्यञ्जिते द्वे त्रीणि चत्वारि वा ज्ञानानि पश्चात्कृतानि । व्यञ्जिते मते मति श्रुतवान् मति श्रुताऽवधिमान् मति श्रुतमनः पर्यायवान् वा मति श्रुताऽवधि - मनः पर्यायवान् सिध्यतीति ॥
भा० – अवगाहना । कः कस्यां शरीरावगाहनायां वर्तमानः सिध्यति । । अवगाहना द्विविधा - उत्कृष्टा जघन्या च । उत्कृष्टा पञ्चधनुःशतानि धनु:पृथक्त्वेनाभ्यधिकानि । जघन्याः सप्त रत्नयोऽङ्गुल पृथक्त्वहीनाः । एतासु शरीरावगाहनासु सिध्यति पूर्वभावप्रज्ञापनीयस्य । अप्रत्युत्पन्नभावप्रज्ञापनीयस्य तु एतास्वेव यथास्वं त्रिभागहीनासु सिध्यति ॥
टी० - अवगाहनेति । आत्मनः शरीरेऽवगाहः - अनुप्रवेशः । सङ्कोचविकासधर्मत्वादात्मनस्तच्छरीरं किंप्रमाणमिति चिन्त्यतेऽवगाहना चरमशरीरे । साऽवगाहना द्विधाउत्कृष्टा जघन्या च । तत्रोत्कृष्टा पश्च धनुःशतानि धनुः पृथक्त्वेनाभ्यधिकानि,
१' परस्मायुगपदिशति' इति च-ज-पाठः ।
Jain Education International
२ 'पृथक्त्वेन हीनाः ' इति घ-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org