________________
३११
सूत्र ७]
स्वोपज्ञभाष्य-टीकालङ्कृतम् द्विप्रभृत्या नवभ्यः पृथक्त्वसंज्ञा च। एतच्चोत्कृष्टं देहमानं मरुदेवीप्रभृतीनां सम्भवति ।
तीर्थकराणां पञ्चव धनुःशतान्युत्कृष्टा जघन्या च सप्तहस्तानां तीर्थकराणातीर्थकराणामा मेव । अङ्गुलपृथक्त्वोना सामान्येन तु जघन्या द्विहस्तानां वामनकूर्म
सुतादीनामिति । तत्र पूर्वभावप्रज्ञापनीयस्य एतास्वेवावगाहनासु सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीये तु एतास्वेवावगाहनासु यथास्वं पञ्चधनुःशतादिकासु त्रिभागहीनासु सिध्यतीति ॥
___ भा०-अन्तरम् । सिध्यमानानां किमन्तरम् । अनन्तरं च सिध्यन्ति सान्तरं च सिध्यन्ति । तत्रानन्तरं जघन्येन द्वौ समयौ, उत्कृष्टेनाष्टौ समयान । सान्तरं जघन्येनैकं समयं, उत्कृष्टेन षण्मासा इति ॥
टी०-अन्तरमिति। सिध्यमानानां जीवानामन्तरं च । तत्रान्तरमेको वर्तमानसमये सिद्धस्ततोऽन्यः कियता कालेन सेत्स्यतीति सिद्धेः गमनशून्यः कालोऽन्तरम्, अन्तरालमित्यर्थः । अनन्तरं निरन्तरमन्त्यव्यवच्छेदोऽनुसन्ततमित्यर्थः । तत्र नैरन्तर्येण जघन्यतः सिध्यन्ति हो समयो उत्कृष्टेनाष्टौ समयानिति । ततः परं व्यवच्छेदः। अन्तरं तु जघन्येनैकसमयः, उत्कृष्टेन षण्मासाः सिध्यन्तः सिध्यतो व्यवच्छिद्यन्ते। व्यवच्छेदः कदाचिदेकस्मिन् समये द्वयोखिषु वेत्यादि यावत् षण्मासा इति ॥
भा०-सङ्ख्या। कत्येकसमये सिध्यन्ति। जघन्येनैकः, उत्कृष्टेनाष्टशतम् ॥
टी–सङ्ख्येति । एकस्मिन् समये कति सिध्यन्ति ? जघन्यत एकः सिध्यति, उत्कृष्टेनाष्टोत्तरशतमिति ॥
भा०-अल्पबहुत्वम् । एषां क्षेत्रादीनामेकादशानामनुयोगद्वाराणामल्पबहुत्वं वाच्यम् । तद्यथा-क्षेत्र सिद्धानां जन्मतः संहरणतश्च कर्मभूमिसिद्धा अकर्मभूमिसिद्धाश्च सर्वस्तोकाः, संहरणसिद्धा, जन्मतोऽसङ्ख्येयगुणाः ॥
टी०-अल्पबहुत्वमित्यादि । एषां क्षेत्रादीनां सङ्ख्यातानामेकादशानामल्एबहुत्वं चिन्त्यते जन्मतः संहरणतश्चेति । जन्मतः पञ्चदशसु कर्मभूमिषु अकर्मभूमयस्त्रिंशत् हैमवताद्याः । तत्र संहरणं कर्मभूमिष्वकर्मभूमिषु वा। तत्र सर्वस्तोकाः संहरणसिद्धाः । अत एवासङ्ख्येयगुणा जन्मतः सिद्धाः॥
भा०–संहरणं विविध-परकृतं स्वयंकृतं च । परकृतं देवकर्मणा चारण-विचारैश्च । स्वयंकृतं चारण-विद्याधराणामेव । एषां च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रा दीपा ऊर्ध्वमधस्तिर्यगिति लोकत्रयम् । तत्र सर्वस्तोका ऊर्ध्व
'सिध्यता' इति उ-ज-पाठः। २ 'सिद्धाश्च ' इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org