________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ९
रोगो ज्वरातीसार काम- श्रामादिः, तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते । गच्छ्वासिनस्त्वल्पबहुत्वालोचनया सम्यक सहन्ते प्रवचनोक्तेन वा विधिना प्रतिक्रियामाचरन्तीति रोगपरीपहजयः ।
२२८
अशु पितृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छ्वासिनां च तत्र येषां शयनमनुज्ञातं निष्पन्नानां तेषां ( निशायां ते तान् ? ) दर्भान् भूमावास्तीर्य संस्तारकोतरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणो वा प्रतनुकसंस्तारकादिपट्टो वाऽत्यन्तजीर्णत्वात् तथापि तं परुपकुशदर्भादितृण संस्पर्श सम्यगधिसहते यस्तस्य तृणस्पर्शपरीपहजयः ।
रजः परागमात्रं मलस्तु स्वेदवारिसम्पर्क कठिनीभूतो वपुषि स्थिरतामितो ग्रीष्मोष्मसम्पातजनितधर्मजलार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमुत्पादयति । तदपनयनाय न कदाचिदभिषेकाद्यभिलाषं करोतीति मलपरीषहजयः ।
सत्कारो भक्तपानवस्त्र पात्रादिना परतो योगः, पुरस्कारः सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारथ, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात्, न दूषयेत् मनोविकारेणात्मानमिति सत्कारपुरस्कार परीषहजयः ।
प्रज्ञायतेऽनयेति प्रज्ञा - बुद्धयतिशयः, तत्प्राप्तौ न गर्वमुद्रद्दत इति प्रज्ञापरीषदजयः । प्रज्ञाप्रतिपक्षेणाल्पबुद्धिकत्वेन परीषहो भवति । नाहं किञ्चिज्जाने मूर्खोऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषदः, तदकरणात् कर्मविपाकोऽयमितिपरीषहजयः ।
ज्ञानं तु श्रुताख्यं चतुर्दश पूर्वाण्येकादशाङ्गानि, समस्तश्रुतधरोऽहमिति गर्वमुद्वहते, तत्रागर्व करणात् ज्ञानपरीषहजयः । ज्ञानप्रतिपक्षेणाप्यज्ञानेनागमशून्यतया परीषहो भवति, ज्ञानावरणक्षयोपशमोदय विजृम्भितमेतदिति, स्वकृतकर्म फलपरिभोगादपैति तपोनुष्ठानेन चेत्येवमालोचयतो ज्ञानपरीषहजयो भवति ।
अदर्शन परीषहस्तु सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्राहं तथापि धर्माधर्मात्मदेवनारका दिभावाने, अतो मृषा समस्तमेतदिति अदर्शनपरीषदः । तत्रैवमालोकयेत् धर्माधर्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मकौ, धर्माद्यदर्शने हेतवः ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वम् । अथ क्षमाक्रोधादिकौ धर्माधर्मौ, ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्ष विरोधः । देवास्त्वत्यन्तरत सुखासक्तत्वान्मनुष्यलोके च कार्याभावात् दुष्पमानुभावाच्च न दर्शनगोचरमायान्ति । नारकास्तु तीव्र वेदनार्ताः पूर्वकृत कर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवतीति । इतिशब्द इयत्ताप्रदर्शनार्थः ॥
१' सन्पात' इति ग-पाठः । २ ' बुद्धिरतिशयः' इति ङ-पाठः ।
'धर्मात्म' इति ङ-पाठः ।
यतश्व दर्शन ' इति पाठः ।
Jain Education International
७
"
For Personal & Private Use Only
३ तापस्तस्य इति ग-पाठः ।
>
www.jainelibrary.org